सदासंपन्नसस्यं च सूर्वरक्षेत्रसंकुलम्
देवतायतनानां च राजिभिः परिराजितम्
सुपुष्प कृत्रिमोद्यानाः ससदाफलपादपाः
सदंभा निम्नगाराजिर्न यत्र जनता क्वचित्
विभ्रमो यत्र नारीषु नविद्वत्सु च कर्हिचित्
तमोयुक्ताः क्षपा यत्र बहुलेषु न मानवाः 4.1.24.
धनैरनंधो यत्रास्ति मनो नैव च भोजनम्
दंडः परशुकुद्दाल वालव्य जनराजिषु
अन्यत्राक्षिकवृंदेभ्यः क्वचिन्न परिदेवनम्
जाड्यवार्ता जलेष्वेव स्त्रीमध्या एव दुर्बलाः
औषधेष्वेव यत्रास्ति कुष्ठयोगो न मानवे
कंपःसात्त्विकभावोत्थो न भयात्क्वापि कस्यचित्
दुर्लभत्वं सदा कस्य सुकृतेन च वस्तुनः
दानहानिर्गजेष्वेव द्रुमेष्वेव हि कंटकाः
बाणेषु गुणविश्लेषो बंधोक्तिः पुस्तके दृढा
दंडवार्ता सदा यत्र कृतसंन्यासकर्मणाम् 4.1.24.
यत्र क्षपणका एव दृश्यंते मलधारिणः
इत्यादि गुणवद्देशे त्वयिराज्यं प्रशासति
सौभाग्यभाजि रूपाढ्ये शौर्यौदार्यगुणान्विते
राज्ञीनामयुतंभावि कुमाराणां शतत्रयम्
विजितानेकसमरः श्रीसंतर्पितमार्गणः
संततावभृथक्लिन्न मूर्धजः क्षितिषर्षभः
पदारविंदं गौविंदं हृदि ध्यायन्नतंद्रितः
कदाचिदुपविष्टःसन्मध्ये राजसभं द्विज
तत्कर्मभाविसदृशैस्तदात्वमभिनंदितः
श्रीमद्विश्वेश्वरो देवो विश्वेषां जगतां गुरुः 4.1.24.
नैःश्रेयसीं च संपत्तिं यो देयात्स्मरणादपि
येन पुण्येन ते प्राप्तं राज्यं प्राज्यमकंटकम्
यस्य प्रसादात्सुलभमायुः पुत्रांबरागनाः
नामश्रवणमात्रेण यस्य विश्वेशितुर्विभोः