प्रत्यक्षतीर्थपाथोभिः पंचकुंभैर्मनोहरैः
देवानां च तथर्षीणां सिद्धानां फणिनामपि
वीणामृदंगाब्जभेरी मरु डिंडिमझर्झरैः
ब्रह्मघोषमहारावैरापूरितनभोंगणे 4.1.23.
आबद्धमुकुटं रम्यं कृतकौतुकमंगलम्
अभिषिच्य महेशेन स्वयं ब्रह्मांडमंडपे
ततस्तुष्टाव देवेशः प्रमथैः सह शार्ङ्गिणम्
मम वंद्यस्त्वयं विष्णुः प्रणमत्वममुं हरिम्
ततो गणेश्वरैः सर्वैंर्ब्रह्मणा च मरुद्गणैः
विद्याधरैः सगंधर्वैर्यक्षरक्षोप्सरोगणैः
पतत्रिभिः किंनरैश्च सर्वैः स्थावरजंगमैः
ततोहरिर्महेशेन संसदि द्युसदां तदा
त्वं कर्ता सर्वभूतानां पाता हर्ता त्वमेव च
दाता धर्मार्थकामानां शास्ता दुर्नयकारिणाम् 4.1.23.
इच्छाशक्तिः क्रियाशक्तिर्ज्ञानशक्तिस्तथोत्तमा
त्वद्द्वेष्टारो हरे नूनं मया शास्याः प्रयत्नतः
मायां चापि गृहाणेमां दुष्प्रणोद्यां सुरासुरैः
वामबाहुर्मदीयस्त्वं दक्षिणोसौ पितामहः
वैकुंठैश्वर्यमासाद्य हरेरित्थं हरः स्वयम्
तदा प्रभृति देवोसौ शार्ङ्गधन्वा गदाधरः
इति ते कथिता विप्र लोकानां च परिस्थितिः
इदं तु परमाख्यानं शृणुयाद्यः समाहितः
यज्ञोत्सवे विवाहे च मंगलेष्वखिलेष्वपि
सर्वाधिकारदानेषु नववेश्मप्रवेशने 4.1.23.
अपुत्रो लभते पुत्रमधनो धनवान्भवेत्
जप्यमेतत्प्रयत्नेन सततं मंगलार्थिना
गणावूचतुः शिवशर्मन्नुदर्कं ते कथयावो निशामय
ब्रह्मणो वत्सरं पूर्णं रममाणोऽप्सरोगणैः
भविष्यसि महीपालो नगरे नंदिवर्धने
कृष्टिभिर्हृष्टपुष्टैश्च रम्यहाटकभूषणैः