तस्य तत्त्वस्वरूपस्य रूपातीतस्य भो द्विज
निराकारोपि साकारः शिव एव हि कारणम
यथा तेनाखिलं ह्येतत्पार्वतीपतिसात्कृतम
तथा मृडानीकांतेन विष्णुसादखिलंजगत 4.1.23.
यथाशिवस्तथा विष्णुर्यथाविष्णुस्तथा शिवः
आहूय पूर्वं ब्रह्मादीन्समस्तान्देवतागणान्
निजसिंहासनसमं कृत्वा सिंहासनं शुभम्
श्लक्ष्णं कोटिशलाकं च विश्वकर्मविनिर्मितम्
कलशेन विचित्रेण ह्युपरिष्टाद्विराजितम्
पट्टसूत्रमयैरम्यैश्चामरैश्च परिष्कृतम्
प्रत्यक्षतीर्थपाथोभिः पंचकुंभैर्मनोहरैः
देवानां च तथर्षीणां सिद्धानां फणिनामपि
वीणामृदंगाब्जभेरी मरु डिंडिमझर्झरैः
ब्रह्मघोषमहारावैरापूरितनभोंगणे 4.1.23.
आबद्धमुकुटं रम्यं कृतकौतुकमंगलम्
अभिषिच्य महेशेन स्वयं ब्रह्मांडमंडपे
ततस्तुष्टाव देवेशः प्रमथैः सह शार्ङ्गिणम्
मम वंद्यस्त्वयं विष्णुः प्रणमत्वममुं हरिम्
ततो गणेश्वरैः सर्वैंर्ब्रह्मणा च मरुद्गणैः
विद्याधरैः सगंधर्वैर्यक्षरक्षोप्सरोगणैः
पतत्रिभिः किंनरैश्च सर्वैः स्थावरजंगमैः
ततोहरिर्महेशेन संसदि द्युसदां तदा
त्वं कर्ता सर्वभूतानां पाता हर्ता त्वमेव च
दाता धर्मार्थकामानां शास्ता दुर्नयकारिणाम् 4.1.23.
इच्छाशक्तिः क्रियाशक्तिर्ज्ञानशक्तिस्तथोत्तमा
त्वद्द्वेष्टारो हरे नूनं मया शास्याः प्रयत्नतः
मायां चापि गृहाणेमां दुष्प्रणोद्यां सुरासुरैः
वामबाहुर्मदीयस्त्वं दक्षिणोसौ पितामहः
वैकुंठैश्वर्यमासाद्य हरेरित्थं हरः स्वयम्
तदा प्रभृति देवोसौ शार्ङ्गधन्वा गदाधरः