कांच्यवंती द्वारवती काश्ययोध्या च पंचमी
विहाय षट्पुरीश्चान्याः काश्यामेवप्रतिष्ठिता
इति सर्वं मम पुरः प्रसादाद्वक्तुमर्हतम्
यथार्थं कथयावस्ते यत्पृष्टं भवतानघ 4.1.23.
विप्रावभासते यावत्किरणैः पुष्पवंतयोः
वियच्च तावदुपरि विस्तारपरिमंडलम्
भानोः सकाशादुपरि लक्षे लक्ष्यः क्षपाकरः
उडुमंडलतः सौम्य उपरिष्टाद्द्विलक्षतः
माहेयादुपरिष्टाच्च सुरेज्यो नियुतद्वये
दशायुतसमुच्छ्रायं सौरेः सप्तर्षिमंडलम्
पादगम्यं हि यत्किंचिद्वस्त्वस्ति धरणीतले
भूर्लोकाच्च भुवर्लोको ब्रध्नावधिरुदाहृतः
महर्लोकः क्षितेरूर्ध्वमेककोटिप्रमाणतः
चतुष्कोटिप्रमाणस्तु तपोलोकोऽस्ति भूतलात् 4.1.23.
सत्यादुपरि वैकुंठो योजनानां प्रमाणतः
यत्रास्ते श्रीपतिः साक्षात्सर्वेषामभयप्रदः
पार्वत्या सहितः शंभुर्गजास्य स्कंद नंदिभिः
तस्य देवस्य खेलोऽयं स्वलीला मूर्तिधारिणः
सर्वेषां शासकश्चासौ तस्य शास्ता न चापरः
सर्वज्ञ एकः स प्रोक्तः स्वेच्छाधीन विचेष्टितः
अमूर्तं यत्परं ब्रह्म समूर्तं श्रुतिचोदितम्
सर्वेभ्यः कारणेभ्यश्च परात्परतरं परम्
संविदं तेन यं वेदा विष्णुर्वेद न वै विधिः
स्वयंवेद्यः परं ज्योतिः सर्वस्य हृदि संस्थितः 4.1.23.
नानारूपोप्यरूपो यः सर्वगोपि न गोचरः
तस्येदमैश्वरं रूपं खंडचंद्रावतंसकम्
लसद्वामार्धनारीकं कृतशेषशुभांगदम्
स्मरांगरजःपुंज पूजितावयवोज्ज्वलम्
महोक्षस्यंदनगमं विरुताजगवायुधम्
उत्त्रासित महामृत्यु महाबलगणावृतम् मनोरथपथातीतं वरदानपरायणम्