मया सृष्टानि विप्रेंद्र भुवनानि चतुर्दश
पुरा यमस्तपस्तप्त्वा बहुकालं सुदुष्करम् 4.1.22.
चराचरस्य सर्वस्य यानि कर्माणि तानि वै
प्रवेशो यमदूतानां न कदाचिद्द्विजोत्तम
स्वयं नियंता विश्वेशस्तत्र काश्यां तनुत्यजाम्
तत्र पापं न कर्तव्यं दारुणा रुद्रयातना
पापमेव हि कर्तव्यं मतिरस्ति यदीदृशी
अपि कामातुरो जंतुरेकां रक्षति मातरम्
परापवादशीलेन परदाराभिलाषिणा
अभिलष्यंति ये नित्यं धनं चात्र प्रतिग्रहैः
परपीडाकरं कर्म काश्यां नित्यं विवर्जयेत्
त्यक्त्वा वैश्वेश्वरीं भक्तिं येऽन्यदेवपरायणाः 4.1.22.
न योगेन विना ज्ञानं योगस्तत्त्वार्थशीलनम् 4.1.22.
उक्तेति विररामाजः शृण्वतोर्गणयोस्तयोः
शिवशर्मोवाच सत्यलोकेश्वर विधे सर्वेषां प्रपितामह
पिपृच्छिषुस्त्वं निर्वाणं गणौ तत्कथयिष्यतः
नेतयोर्विष्णुगणयोरगोचरमिहास्ति हि
इत्युक्त्वा सत्कृतास्ते वै ब्रह्मणा भगवद्गणाः
पुनः स्वयानमारुह्य वैकुंठमभितो ययुः
पृच्छाम्यन्यच्च वां भद्रौ ब्रूतं प्रीत्या तदप्यहो
कांच्यवंती द्वारवती काश्ययोध्या च पंचमी
विहाय षट्पुरीश्चान्याः काश्यामेवप्रतिष्ठिता
इति सर्वं मम पुरः प्रसादाद्वक्तुमर्हतम्
यथार्थं कथयावस्ते यत्पृष्टं भवतानघ 4.1.23.
विप्रावभासते यावत्किरणैः पुष्पवंतयोः
वियच्च तावदुपरि विस्तारपरिमंडलम्
भानोः सकाशादुपरि लक्षे लक्ष्यः क्षपाकरः
उडुमंडलतः सौम्य उपरिष्टाद्द्विलक्षतः
माहेयादुपरिष्टाच्च सुरेज्यो नियुतद्वये
दशायुतसमुच्छ्रायं सौरेः सप्तर्षिमंडलम्