सप्तधातुमयी भूततनौ पापानि यानि वै
पुण्यराशिं च विपुलं पुण्यान्भोगान्यथेप्सितान् 4.1.22.
स्नायाद्योभिलषन्मोक्षं कामानन्यान्विहाय च
तीर्थराजं परित्यज्य योऽन्यस्मात्काममिच्छति
सत्यलोके प्रयागे च नांतरं वेद्म्यहं द्विज
तीर्थाभिलाषिभिर्मर्त्यैस्सेव्यं तीर्थांतरं नहि
यथांतरं द्विजश्रेष्ठ भूपेत्वितरसेवके
यथाकथंचित्तीर्थेऽस्मिन्प्राणत्यागं करोति यः
यस्य भाग्यवतश्चात्र तिष्ठंत्यस्थीन्यपि द्विज
ब्रह्महत्यादि पापानां प्रायश्चित्तं चिकीर्षुणा
किं बहूक्तेन विप्रेंद्र महोदयमभीप्सुना
प्रयागतोपि तीर्थेशात्सर्वेषु भुवनेष्वपि 4.1.22.
प्रयागादपि वै रम्यमविमुक्तं न संशयः
अविमुक्तान्महाक्षेत्राद्विश्वेश समधिष्ठितात्
अविमुक्तमिदं क्षेत्रमपि ब्रह्मांडमध्यगम्
यथायथा हि वर्धेत जलमेकार्णवस्य च
क्षेत्रमेतत्त्रिशूलाग्रे शूलिनस्तिष्ठति द्विज
सदा कृतयुगं चात्र महापर्वसदाऽत्र वै
सदा सौम्यायनं तत्र सदा तत्र महोदयः
यथाभूमितले विप्र पुर्यः संति सहस्रशः
मया सृष्टानि विप्रेंद्र भुवनानि चतुर्दश
पुरा यमस्तपस्तप्त्वा बहुकालं सुदुष्करम् 4.1.22.
चराचरस्य सर्वस्य यानि कर्माणि तानि वै
प्रवेशो यमदूतानां न कदाचिद्द्विजोत्तम
स्वयं नियंता विश्वेशस्तत्र काश्यां तनुत्यजाम्
तत्र पापं न कर्तव्यं दारुणा रुद्रयातना
पापमेव हि कर्तव्यं मतिरस्ति यदीदृशी
अपि कामातुरो जंतुरेकां रक्षति मातरम्
परापवादशीलेन परदाराभिलाषिणा
अभिलष्यंति ये नित्यं धनं चात्र प्रतिग्रहैः