संति स्वर्गा बहुविधाः सुखेतर विवर्जिता
स्वर्लोकादधिकं रम्यं नहि ब्रह्मांडगोलके
स्वर्लोकादपिरम्याणि पातालानीति नारदः 4.1.22.
आह्लादकारिणः शुभ्रा मणयो यत्र सुप्रभाः
दैत्यदानवकन्याभिरितश्चेतश्च शोभिते
दिवार्करश्मयस्तत्र प्रभां तन्वंति नातपम्
यत्र न ज्ञायते कालो गतोपि दनुजादिभिः
कलाः पुंस्को किलालापाः सुचैलानि शुचीनि च
वीणावेणुमृदंगादि निस्वनाः श्रुतिहारिणः
एतान्यन्यानि रम्याणि भोग्योग्यानि दानवैः
पातालेभ्योपि वै रम्यं द्विज वर्षमिलावृतम्
सदा सुकृतिनो यत्र सर्वभोगभुजो द्विज
भोगभूमिरियं प्रोक्ता श्रेयो विनिमयार्जिता 4.1.22.
अक्लीबभाषिभिश्चापि पुत्रक्षेत्राद्यहीनकैः
संति द्वीपा ह्यनेका वै पारावारांतरस्थिताः
तत्रापि नववर्षाणि भारतं तत्र चोत्तमम्
अष्टौ किंपुरुषादीनि देवभोग्यानि तानि तु
योजनानां सहस्राणि नवविस्तारतस्त्विदम्
तत्रापि हिमविंध्याद्रेरंतरं पुण्यदं परम्
कुरुक्षेत्रं हि सर्वेषां क्षेत्राणामधिकं ततः
नैमिषारण्यतोपीह सर्वस्मिन्क्षितिमंडले
स्वर्गदोमोक्षदश्चैव सर्वकामफलप्रदः
यागाः सर्वे मया पूर्वं तुलया विधृता द्विज 4.1.22.
दृष्ट्वा प्रकृष्टयागेभ्यः पुष्टेभ्यो दक्षिणादिभिः
नाममात्रस्मृतेर्यस्य प्रयागस्य त्रिकालतः
संति तीर्थान्यनेकानि पापत्राणकराणि च
जन्मांतरेष्वसंख्येषु यः कृतः पापसंचयः
स तीर्थराजगमनोद्यतस्य शुभजन्मनः
ततः क्रांतार्धमार्गस्य प्रयाग दृढचेतसः
भाग्यान्नेत्रातिथीभूते तीर्थराजे महात्मनः