ये च वर्षनिमेषा वै वर्षधारांबु तर्षकाः
जटाटवी कोटरांतः कृतनीडांडजाश्च ये
लताप्रतानैः परितो वेष्टितावयवाश्च ये 4.1.22.
इत्यादि सुतपः क्लिष्टवर्ष्माणो ये तपोधनाः
यावदित्थं स पुण्यात्मा शृणोति गणयोर्मुखात्
त्वरावंतौ गणौ तत्र विमानादवरुह्य तौ
ब्रह्मोवाच स्मृत्युक्ताचारचंचुश्च प्रतीपः पापकर्मसु
अयि द्विज महाप्राज्ञ जाने त्वां शिवशर्मक
सत्वरं गत्वरं सर्वं यच्चैतद्भवतेक्षितम्
आ वैराजं प्रतिपदमुपसंहरते हरः
चतुर्षु भूतग्रामेषु ह्येक एव गुणो नृणाम्
चपलानि विनिर्जित्येंद्रियाणि मनसा सह
धर्मवंशहरं काममर्थसंचयहारिणम् 4.1.22.
जित्वा क्रोधरिपुं धैर्यात्तपसो यशसः श्रियः
सदा मदं परित्यज्य प्रमादैकपदप्रदम्
सर्वत्र लघुता हेतुमहंकारं विहाय च
हित्वा मोहं महाद्रोहरोपणं मतिघातिनम्
श्रुतिस्मृतिपुराणोक्तं परिक्षुण्णं महाजनैः
कर्मभूमिं समीहंते सर्वे स्वर्गौकसो द्विज
नार्यावर्तसुमो देशो न काशी सदृशी पुरी
संति स्वर्गा बहुविधाः सुखेतर विवर्जिता
स्वर्लोकादधिकं रम्यं नहि ब्रह्मांडगोलके
स्वर्लोकादपिरम्याणि पातालानीति नारदः 4.1.22.
आह्लादकारिणः शुभ्रा मणयो यत्र सुप्रभाः
दैत्यदानवकन्याभिरितश्चेतश्च शोभिते
दिवार्करश्मयस्तत्र प्रभां तन्वंति नातपम्
यत्र न ज्ञायते कालो गतोपि दनुजादिभिः
कलाः पुंस्को किलालापाः सुचैलानि शुचीनि च
वीणावेणुमृदंगादि निस्वनाः श्रुतिहारिणः
एतान्यन्यानि रम्याणि भोग्योग्यानि दानवैः