संति स्तोत्राण्यनेकानि मम प्रीतिकराणि च
श्रुत्वापीमां स्तुतिं मर्त्यः श्रद्धया परया मुदा
अपुत्रः पुत्रमाप्नोति निर्धनो धनमाप्नुयात्
दत्त्वा दानान्यनेकानि कृत्वा नाना व्रतानि च
त्यक्त्वा सर्वाणि कार्याणि त्यक्त्वा जप्यान्यनेकशः
श्रीभगवानुवाच ध्रुवावधेहि वक्ष्यामि हितं तव महामते
अहं जिगमिषुस्त्वासं पुरीं वाराणसीं शुभाम्
विपन्नानां च जंतूनां यत्र विश्वेश्वरः स्वयम्
अस्य संसारदुःखस्य सर्वोपद्रवदायिनः
इदं रम्यमिदं नेति बीजं दुःखमहातरोः 4.1.21.
कार्तिकस्य चतुर्दश्यां विश्वेशं यो विलोकयेत् 4.1.21.
अत्र ब्रह्मपुरीं कृत्वा यो विप्रेभ्यः प्रयच्छति 4.1.21.
नरो ध्रुवस्य चरितं प्रसंगेन स्मरन्नपि 4.1.21.
ध्रुवाख्यानमिदं रम्यं महापातकनाशनम्
तावत्प्राप महर्लोकं स्वर्लोकात्परमाद्भुतम्
द्विजोऽथ लोकं संवीक्ष्य सर्वतो महसा वृतम्
तावूचतुस्ततो विप्रं निशामय महामते
कल्पायुषो वसंत्यत्र तपसा धूतकल्मषाः
निर्व्याजप्रणिधानेन दृष्ट्वा तेजोमयं जगत्
इत्थं कथां कथयतोर्भगवद्गणयोः प्रिये
निवसंत्यमला यत्र मानसा बह्मणः सुताः
अन्ये तु योगिनो ये वै ह्यस्खलद्ब्रह्मचारिणः
जनलोकात्तपोलोकस्तेषां लोचनगोचरः 4.1.22.
वैराजा यत्र ते देवा वसेयुर्दाहवर्जिताः
तपसा तोष्य गोविंदमभिलाषविवर्जिताः
शिलोंछ वृत्तया ये वै दंतोलूखलिकाश्च ये
ग्रीष्मे पंचाग्नितपसो वर्षासु स्थंडिलेशयाः
कुशाग्रनीरविप्रूषस्तृषिता यतयोऽपिबन्
ऊर्ध्वदोषो रविदृशस्त्वेकांघ्रि स्थाणु निश्चलाः
मासोपवासव्रतिनश्चातुर्मास्य व्रताश्च ये