तवोपहारं भक्त्याय सेवते यजपूरुष 4.1.21.
स चैवावभृथस्नातः स च गंगाजलाप्लुतः
शालग्राम शिला येन पूजिता तुलसी दलैः
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा यदि वेतरः
शंखचक्रांकिततनुः शिरसां मंजरीधरः
प्रत्यहं द्वादशशिलाः शालग्रामस्य योऽर्चयेत्
तुलसी यस्य भवने प्रत्यहं परिपूज्यते
हरिनामाक्षरमुखं भाले गोपीमृदांकितम्
गोपीमृत्तुलसी शंखः शालग्रामः सचक्रकः
ये मुहूर्ताः क्षणा ये च या काष्ठा ये निमेषकाः
क्व द्वयक्षरं हरेर्नाम स्फुलिंगसदृशं ज्वलेत 4.1.21.
गोविंद परमानंदं मुकुंदं मधुसूदनम
न नमामि न च स्तौमि न पश्यामीह चक्षुषा
जले स्थले च पातालेप्यनिले चानलेऽचले
तृणेस्त्रैणे च पाषाणे तरुगुल्मलतासु च
सर्वेषां हृदयावासः साक्षात्साक्षी त्वमेव हि
इत्युक्त्वा विररामासौ शिवशर्मन्ध्रुवस्तदा
परिज्ञातो मया सम्यक्तवहृत्स्थो मनोरथः
अन्नाद्भवंति भूतानि वृष्टेरन्नसमुद्भवः
ज्योतिश्चक्रस्य सर्वस्य ग्रहर्क्षादेः समंततः
मेढीभूतस्तु वै सर्वान्वायुपाशैर्नियंत्रितान् 4.1.21.
आराध्य श्री महादेवं पुरापदमिदं मया
केचिच्चतुर्युगं यावत्केचिन्मन्वंतरं ध्रुव
मनुनापि न यत्प्रापि किमन्यैर्मानवैर्ध्रुव
अन्यान्वरान्प्रयच्छामि स्तवेनानेन तोषितः
इदं स्तोत्रवरं यस्तु पठिष्यति समाहितः
न तस्य सदनं लक्ष्मीः परित्यक्ष्यत्यसंशयम्
ध्रुवस्तुतिरियं पुण्या महापातकनाशिनी
महापुण्यस्य जननी महासंपत्तिदायिनी ८८ !। यस्याऽस्तिपरमा भक्तिर्मयि निर्मलचेतसः
समस्त तीर्थस्नानेन यत्फलं लभते नरः 4.1.21.