सुरापगाऽसि सरितां सरसां मानसं सरः 4.1.21.
धातूनां हाटकमसि स्फटिकश्चोपलेष्वसि
सर्वपूज्यशिलानां वै शालग्राम शिला भवान्
वर्णेषु श्वेतवर्णोऽसि द्विपदां ब्राह्मणो भवान्
वेदेषूपनिषद्रूपा मंत्राणां प्रणवोह्यसि
प्रतापिनामग्निरसि क्षमाऽसि त्वं क्षमावताम्
चापोसि सर्वशस्त्राणां वातो वेगवतामसि
व्योमव्याप्तिमतां त्वं वै परमात्माऽसि चात्मनाम्
क्रतूनामश्वमेधोसि दानानामभयं भवान्
युगानां प्रथमोसि त्वं तिथीनां त्वं कुहूर्ह्यसि
योगेषु व्यतिपातस्त्वं तृणेषु हि कुशो भवान् 4.1.21.
सर्वासामिह बुद्धीनां धर्मबुद्धिर्भवानज
प्राणायामोसि सर्वेपु साधनेषु शुचिष्वहो
मित्राणां हि कलत्रं त्वं धर्मस्त्वं सर्वबंधुषु
त्वमेव माता त्वं तातस्त्वं सुतस्त्वं महाधनम्
सा कथा यत्र ते नाम तन्मनो यत्त्वदर्पितम्
तद्धनं धनिनां शुद्धं यत्त्वदर्थे व्ययीकृतम्
तावच्च जीवितं श्रेयो यावत्त्वं हृदि वर्तसे
महापापानि गोविंद बहुजन्मार्जितान्यपि
अहो पुंसां महामोहस्त्वहो पुंसां प्रमादता
इदमेव हि मांगल्यमिदमेव धनार्जनम् 4.1.21.
अधोक्षजात्परोधर्मो नार्थो नारायणात्परः
इयमेव परा हानिरुपसर्गो यमेवहि
हरेराराधनं पुंसां किं किं न कुरुते बत
हरत्यघं ध्वंसयति व्याधीनाधीन्नियच्छति
भगवच्चरणद्वंद्वं निर्द्द्वंद्व ध्यानमुत्तमम्
पापिनां यानि पापानि महोपपदभांज्यपि
प्रमादादपि संस्पृष्टो यथाऽनलकणो दहेत्
नितांतं कमलाकांते शांतचित्तं विधाय यः
अयमेव परोधर्मस्त्विदमेव परं तपः