हिरण्यकशिपोर्वक्षो विदारण रणप्रिय 4.1.21.
नमस्ते धर्मरूपाय नमः सत्त्वगुणाय च
सहस्राक्ष सहस्रांघ्रे सहस्रकिरणाय च
वेदवेद्यस्वरूपाय नमो वेदप्रियाय च
वैकुंठाय नमस्तुभ्यं नमो वैकुंठवासिने
विष्वक्सेन नमस्तुभ्यं जगन्मय जनार्दन
केशवाय नमस्तुभ्यं मायिने ब्रह्मागायिने
स्तुत्याय स्तुतिरूपाय भक्तस्तुतिरताय च
अंडजाय नमस्तुभ्यं स्वेदजाय नमोस्तु ते
देवानामिंद्ररूपोसि ग्रहाणामसि भानुमान्
सुरापगाऽसि सरितां सरसां मानसं सरः 4.1.21.
धातूनां हाटकमसि स्फटिकश्चोपलेष्वसि
सर्वपूज्यशिलानां वै शालग्राम शिला भवान्
वर्णेषु श्वेतवर्णोऽसि द्विपदां ब्राह्मणो भवान्
वेदेषूपनिषद्रूपा मंत्राणां प्रणवोह्यसि
प्रतापिनामग्निरसि क्षमाऽसि त्वं क्षमावताम्
चापोसि सर्वशस्त्राणां वातो वेगवतामसि
व्योमव्याप्तिमतां त्वं वै परमात्माऽसि चात्मनाम्
क्रतूनामश्वमेधोसि दानानामभयं भवान्
युगानां प्रथमोसि त्वं तिथीनां त्वं कुहूर्ह्यसि
योगेषु व्यतिपातस्त्वं तृणेषु हि कुशो भवान् 4.1.21.
सर्वासामिह बुद्धीनां धर्मबुद्धिर्भवानज
प्राणायामोसि सर्वेपु साधनेषु शुचिष्वहो
मित्राणां हि कलत्रं त्वं धर्मस्त्वं सर्वबंधुषु
त्वमेव माता त्वं तातस्त्वं सुतस्त्वं महाधनम्
सा कथा यत्र ते नाम तन्मनो यत्त्वदर्पितम्
तद्धनं धनिनां शुद्धं यत्त्वदर्थे व्ययीकृतम्
तावच्च जीवितं श्रेयो यावत्त्वं हृदि वर्तसे
महापापानि गोविंद बहुजन्मार्जितान्यपि
अहो पुंसां महामोहस्त्वहो पुंसां प्रमादता