इति गौर्योदिता दुर्गा जुगुप्साकुलमानसा
तीर्थमुत्पाद्यतां देवि नवं पापविनाशनम्
इतीरिता गौतमेन दुर्गा दुरितशंकिनी
पातालावधि निर्भिन्नात्पाषाणतलतस्ततः 1.3.2.20.
ममज्ज सापि गंभीरे तस्मिन्नंभसि पावने
तावन्महिषकंठस्थं लिंगं तद्गलितं तले
उन्ममज्ज ततो दुर्गा तीर्थांभोधूतकल्मषा
कृतप्रदक्षिणा नत्वा पापनाशनमीश्वरम्
एवं प्रत्यक्षनिरतपापां तां वीक्ष्य पार्वती
महिषासुरसंहारेंऽजसा स्वनुमतिः कृता
गृहीत्वा भक्षयामास तस्य लिंगमिदं शिवम्
त्वद्ध्यानमेव जगतां सर्वपातकनाशनम्
अथापि लौकिकं वृत्तमवलंब्य त्वयेरितम्
अन्तःकरणकालुष्यक्षालिनी काचन क्रिया 1.3.2.20.
अरुणाद्रिरयं साक्षादनलाद्रिस्तिरोहितः
तत्सपर्यातपश्चर्या कार्या कात्यायनि त्वया
इत्युक्ता गौतमेनांबा तदाप्रभृति दारुणा
तपश्चचार पंचानामग्नीनां मध्यमाश्रिता
रेजे हैमी शलाकेव द्योतमाना गिरींद्रजा
सा कार्त्तिकी पौर्णमासी समापेदे शुभा तिथिः
अदर्शि किमपि ज्योतिरनुपाधिकवैभवम्
उपास्यमानमभितो देवैर्दिव्यर्षिसंगतैः
महाप्रदीपमालोक्य विस्मयं प्राप पार्वती अरुणाद्रीश्वरं नाथं तुष्टा तुष्टाव शैलजा
नमस्ते मेरुचापाय कैलासाचलवासिने 1.3.2.20.
वरुणादिसुरार्च्याय तरुणादित्यवर्चसे
जय जह्नुसुताचन्द्र लेखालंकृतशेखर
जय शैलसुतासंगसंभृतानंगवैभव
जय संध्यासमोपेतसंभृतानंदतांडव
जय हेरंबजनक जय षण्मुखवत्सल
इति स्तुत्वा मुहुस्तस्मिञ्ज्योतिषि न्यस्तलोचनाम्