अथ नारायणो देवस्तं दृष्ट्वा दृढमानसम्
श्रीविष्णुरुवाच प्रसन्नोस्मि महाभाग वरं वरय सुव्रत
वचोऽमृतं समाकर्ण्य पर्युन्मील्य विलोचने
प्रत्यग्रविकसन्नीलोत्पलानां निकुरंबकैः
लक्ष्मीदेवीकटाक्षोघैः कटाक्षितमिवाखिलम्
प्रोद्यत्कादंबिनीमध्य विद्युद्दामसमानरुक्
नभो निकष पाषाणो मेरुकांचन रेखितः
सुनीलगगनं यद्वद्भूषितं तु कलावता
दंडवत्प्रणिपत्याथ परितः परिलुठ्य च
नारदेन सनंदेन सनकेन सुसंस्तुतः 4.1.20.
स्पर्शनाद्देवदेवस्य सुसंस्कृतमयी शुभा
हिरण्यरेतसे तुभ्यं सुहिरण्यप्रदायिने
नमो हरस्वरूपाय भूतसंहारकारिणे
नमः स्थितिकृते तुभ्यं विष्णवे प्रभविष्णवे
नमो दैत्यमहारण्य दाववह्निस्वरूपिणे
नमः कौमोदकीव्यग्र कराग्राय गदाधर
नमः श्रीपतये तुभ्यं नमश्चक्रधराय च
नमः कमलहस्ताय कमलावल्लभाय ते
नमो वेदांतवेद्याय नमः श्रीवत्सधारिणे
नमस्ते पद्मनाभाय पांचजन्यधराय च
प्रद्युम्नाय नमस्तुभ्यमनिरुद्धाय ते नमः 4.1.21.
दामोदरहृषीकेश गोर्विदाच्युतमाधव
नारायणाय नरकहारिणे पापहारिणे
अनंताय नमस्तुभ्यमनंतशयनाय च
चैद्यहंत्रे नमस्तुभ्यं दानवारेसुरारये
नमस्ते पुंडरीकाक्ष दनुजेंद्र निषूदिने
गोपीप्रियाय केशिघ्ने गोवर्धनधराय च
रावणारे नमस्तुभ्यं विभीषणशरण्यद
क्षणादि कालरूपाय नानारूपाय शार्ङ्गिणे
बलाय बलभद्राय बलारातिप्रियाय च