मात्रातन्मार्गरक्षार्थं तदा तदनुगीकृताः
स्वसौधात्स विनिर्गत्य बालोऽबालपराक्रमः
समरुत्तरुशाखाग्र प्रसारणमिषेण सः
समातृदैवतोभिज्ञः केवलं राजवर्त्मनि
यावदुन्मील्य नयने पुरः पश्यति स ध्रुवः
वालिशेष्वसहायेषु भवेद्भाग्यं सहायकृत्
क्व राजतनयो बालो गहनं क्व च तद्वनम् 4.1.19.
यत्र यस्य हि यद्भाव्यं शुभं वाऽशुभमेव च
अन्यथा विदधात्येष मानवो बुद्धिवैभवात्
नवयो न च वै चित्र्यं न चित्रं विदधेहितम्
अथ दृष्ट्वा स सप्तर्षीन्सप्तसप्त्यतितेजसः
तिलकांकित सद्भालान्कुशोपग्रहितांगुलीन्
साक्षसूत्रकरान्किंचिद्विनिमीलितलो चनान्
अकांडेपि महाभागान्मिलितान्सप्तनीरधीन्
उपगम्य विनम्रः स प्रबद्धकरसंपुटः
उत्तानपादतनयं ध्रुवं निर्विण्णमानसम्
इदं वनमनुप्राप्तं सनाथं युष्मदंघ्रिभिः 4.1.19.
ते दृष्ट्वोर्जस्वलं बालं स्वभाव मधुराकृतिम्
उपोपवेश्य शिशुकं प्रोचुर्वै विस्मिता भृशम्
विचार्यापि न जानीमो वद निर्वेदकारणम्
नीरुक्छरीरसंपत्तिर्निवेदे किं नु कारणम्
सप्तद्वीपपतेराज्ञः कुमारस्त्वं तथा कथम्
अवगंतुं हि शक्येत यूनो वृद्धस्य वा शिशोः
वाचं जग्राह स तदा शिशुः प्रांशुमनोरथः
राजांकमारुरुक्षुर्हि सुरुच्या परिभर्त्सितः
धिक्कृत्य प्रशशंस स्वं निर्वेदे कारणं त्विदम्
क्षात्रमेव शशंसुस्तदहो बालेपि न क्षमा।। 4.1.19.
अत्रिरुवाच मनोरथपथातीतं स्फीतं नाकलयेत्पदम् ।। 4.1.19.
पुत्रान्कलत्रमित्राणि राज्यं स्वर्गापवर्गकम् 4.1.19.
इत्युक्त्वांऽतर्हिताः सर्वे महात्मानो मुनीश्वराः