त्वदास्यस्यौष्ठपुटक दुग्धवार्धि विवर्धिताम्
त्वदीयः शीतलालापः प्राप श्रुतिपथं यदा
यदंग निद्रासिचिरं ध्यायंत्यस्मि तदेत्यहम्
यदोपेया गृहान्वत्स खेलित्वा बालखेलनैः
यदा सौधाद्विनिर्यायाः पद्मरेखांकितं पदम्
यदायदा बहिर्यासि पुत्र त्रिचतुरं पदम्
चित्रं पुत्र त्वरयति यातुं मे मानसांडजः 4.1.19.
अथ तिष्ठंतु कठिनाः प्राणाः कंठाटवीतटे
इत्यनुज्ञामनुप्राप्य जननी चरणांबुजौ
तयापि धैर्यसूत्रेण सुनीत्या परिगुंफ्य च
मात्रातन्मार्गरक्षार्थं तदा तदनुगीकृताः
स्वसौधात्स विनिर्गत्य बालोऽबालपराक्रमः
समरुत्तरुशाखाग्र प्रसारणमिषेण सः
समातृदैवतोभिज्ञः केवलं राजवर्त्मनि
यावदुन्मील्य नयने पुरः पश्यति स ध्रुवः
वालिशेष्वसहायेषु भवेद्भाग्यं सहायकृत्
क्व राजतनयो बालो गहनं क्व च तद्वनम् 4.1.19.
यत्र यस्य हि यद्भाव्यं शुभं वाऽशुभमेव च
अन्यथा विदधात्येष मानवो बुद्धिवैभवात्
नवयो न च वै चित्र्यं न चित्रं विदधेहितम्
अथ दृष्ट्वा स सप्तर्षीन्सप्तसप्त्यतितेजसः
तिलकांकित सद्भालान्कुशोपग्रहितांगुलीन्
साक्षसूत्रकरान्किंचिद्विनिमीलितलो चनान्
अकांडेपि महाभागान्मिलितान्सप्तनीरधीन्
उपगम्य विनम्रः स प्रबद्धकरसंपुटः
उत्तानपादतनयं ध्रुवं निर्विण्णमानसम्
इदं वनमनुप्राप्तं सनाथं युष्मदंघ्रिभिः 4.1.19.
ते दृष्ट्वोर्जस्वलं बालं स्वभाव मधुराकृतिम्
उपोपवेश्य शिशुकं प्रोचुर्वै विस्मिता भृशम्
विचार्यापि न जानीमो वद निर्वेदकारणम्