मादृश्यो मंदभाग्यायाः प्रमदासु प्रतिष्ठिताः
महा सुकृतसंभारैरुत्तमश्चोत्तमोदरे
आतपत्रं च चंद्राभं शुभे चापि च चामरे
तुरंगमाश्च तुरगास्त्वनाधिव्याधिजीवितम्
विपुलं च कलाज्ञानमधीतमपराजितम्
दृष्टिः कारुण्यसंपूर्णा वाणी मधुरभाषिणी
सर्वत्र शुचिता तात सा परोपकृतिः सदा ।। 4.1.19.
सदोजिरे च पांडित्यं प्रागल्भ्यं चरणांगणे
मार्दवं स्त्रीप्रयोगेषु वत्सलत्वं प्रजासु च
वासो भागीरथीतीरे तीर्थे वा मरणं रणे
भोगः परिजनैः सार्धं दानावंध्यदिनागमः
यशसः संचयो नित्यं नित्यं धर्मस्य संचयः
सद्भिश्च संगतिर्नित्यं मैत्री च पितृमित्रकैः
विपद्यपि परं धैर्यं स्थैर्यं संपत्समागमे
देहे परैका कृशता तपोभिर्नियमैर्यमैः
तस्मादल्पतपस्त्वाद्वै त्वं चाहं च महामते
मानापमानयोस्तस्मात्स्वकृतं कारणं परम् मा शोचस्त्वमतः पुत्र दिष्टमिष्टं समर्पयेत् ।।4.1.19.
इत्याकर्ण्य सुनीत्यास्तन्महावाक्यं सुनीतिमत्
ध्रुव उवाच जनयित्रि सुनीते मे शृणु वाक्यमनाकुलम्
यद्यहं मानवे वंशे जातोस्म्यत्यंत पावने
तप एव हि चेन्मातः कारणं सर्वसंपदाम्
एकमेव हि साहाय्यं कुरु मातरतंद्रिता
सापि ज्ञात्वा महावीर्यं कुमारं कुक्षिसंभवम्
अनुज्ञातुं न शक्ताऽहं त्वामुत्तानशयांगज
सपत्नीवाक्यभल्लीभिर्भिन्ने महति मे हृदि
तानि मन्येऽत्र मार्गेण स्रवंत्यविरतं शिशो
त्वदेकतनया तात त्वदाधारैकजीविता 4.1.19.
लब्धोसि कतिभिः कष्टैरिष्टाः संप्रार्थ्य देवताः
आनन्दपयसापूर्य कुचावुद्वेलितो भवेत्
सुखंशये सुशयने प्रावृत्य पुलकांबरम्