अपोथसमुपस्पृश्य तांबूलं परिगृह्य च
संपृच्छे जननि त्वाहं सम्यक्शंस ममाग्रतः
कथं न भवती मातः प्रिया क्षितिपतेरसि
कुमारत्वेपि सामान्ये कथं त्वहमनुत्तमः
कथं नृपासनं योग्यमुत्तमस्य कथं न मे
इति श्रुत्वा वचस्तस्य सुनीतिर्नीतिमच्छिशोः
स्वभावमधुरां वाणीं वक्तुं समुपचक्रमे 4.1.19.
निवेदयामि ते सर्वं माऽपमाने मतिं कृथाः
तया यदुक्तं तत्सर्वं तथ्यमेव न चान्यथा
तया जन्मांतरे तात यत्पुण्यं समुपार्जितम्
मादृश्यो मंदभाग्यायाः प्रमदासु प्रतिष्ठिताः
महा सुकृतसंभारैरुत्तमश्चोत्तमोदरे
आतपत्रं च चंद्राभं शुभे चापि च चामरे
तुरंगमाश्च तुरगास्त्वनाधिव्याधिजीवितम्
विपुलं च कलाज्ञानमधीतमपराजितम्
दृष्टिः कारुण्यसंपूर्णा वाणी मधुरभाषिणी
सर्वत्र शुचिता तात सा परोपकृतिः सदा ।। 4.1.19.
सदोजिरे च पांडित्यं प्रागल्भ्यं चरणांगणे
मार्दवं स्त्रीप्रयोगेषु वत्सलत्वं प्रजासु च
वासो भागीरथीतीरे तीर्थे वा मरणं रणे
भोगः परिजनैः सार्धं दानावंध्यदिनागमः
यशसः संचयो नित्यं नित्यं धर्मस्य संचयः
सद्भिश्च संगतिर्नित्यं मैत्री च पितृमित्रकैः
विपद्यपि परं धैर्यं स्थैर्यं संपत्समागमे
देहे परैका कृशता तपोभिर्नियमैर्यमैः
तस्मादल्पतपस्त्वाद्वै त्वं चाहं च महामते
मानापमानयोस्तस्मात्स्वकृतं कारणं परम् मा शोचस्त्वमतः पुत्र दिष्टमिष्टं समर्पयेत् ।।4.1.19.
इत्याकर्ण्य सुनीत्यास्तन्महावाक्यं सुनीतिमत्
ध्रुव उवाच जनयित्रि सुनीते मे शृणु वाक्यमनाकुलम्
यद्यहं मानवे वंशे जातोस्म्यत्यंत पावने