एकेन सारथिं रथ्यानष्टभिः कार्मुकं त्रिभिः
पदातिरथ दैत्येंद्रः शतघ्नीं ज्वलदाकृतिम्
हाहाकुर्वस्तु देवेषु विद्राणे मातृमंडले 1.3.2.19.
कृपाणमंकुशं पाशं भुशुंडीं करवालिकाम्
परश्वधं भिंडिपालं पट्टिशं लगुडं च सः
आपतंत्येव शस्त्राणि क्षिप्तान्यादाय वैरिणाम्
दुर्गोपवाह्यः सिंहोऽपि लांगूलाग्रेण मुद्रितम्
क्षणं सिंहः क्षणं क्रोडः क्षणं व्याघ्रः क्षणं गजः
महिषोऽथ विषाणाभ्यां तीक्ष्णाभ्यामत्यमर्षितः
क्षणं गगनमध्यस्थः क्षणं प्राप्तो महीतले
प्रार्थिता मातृचक्रेण दुर्गा महिषदानवम्
मुक्तघर्घरनिर्घोषो यावत्पतति दानवः
कंठपीडनतो यातजीवितस्यामरद्रुहः 1.3.2.19.
इति दुर्गया समिति कासरासुरे दलिते समस्तभुवनैककंटके
अहो दुरितहारिण्या दुर्गायाश्च पराक्रमः
एवं तया भद्रकाल्या निहते महिषासुरे
ननाम गौरीमन्येन पाणिना खङ्गधारिणा
अथ हर्षेण नृत्यंतीं तामालोक्य दयार्द्रया
त्वयातिदुष्करं कर्म निर्मितं विंध्यवासिनि
अथैतन्माहिषं शीर्षमपवित्र भयंकरम्
इति गौर्योदिता दुर्गा जुगुप्साकुलमानसा
तीर्थमुत्पाद्यतां देवि नवं पापविनाशनम्
इतीरिता गौतमेन दुर्गा दुरितशंकिनी
पातालावधि निर्भिन्नात्पाषाणतलतस्ततः 1.3.2.20.
ममज्ज सापि गंभीरे तस्मिन्नंभसि पावने
तावन्महिषकंठस्थं लिंगं तद्गलितं तले
उन्ममज्ज ततो दुर्गा तीर्थांभोधूतकल्मषा
कृतप्रदक्षिणा नत्वा पापनाशनमीश्वरम्
एवं प्रत्यक्षनिरतपापां तां वीक्ष्य पार्वती
महिषासुरसंहारेंऽजसा स्वनुमतिः कृता