अथवांबरकासारसारयूपस्वरूपधृक्
निशम्येति वचस्तस्य वयस्यस्य विमानगौ
तस्य क्षितिपतेर्विप्र द्वौ सुतौ संबभूवतुः
सुरुच्यामुत्तमो ज्येष्ठः सुनीत्यां तु ध्रुवो परः
सुनीत्या राजसेवायै नियुक्तोऽलंकृतोर्भकः
स गत्वोत्तानचरणं क्षोणीशं प्रणनाम ह
प्रोच्चसिंहासनस्थस्य नृपतेर्बाल्यचापलात् 4.1.19.
आरुरुक्षुमवेक्ष्यामुं सुरुचिर्धुवमब्रवीत्
बालबालिशबुद्धित्वादभाग्या जठरोद्भव
यदि स्यात्सुकृतं तत्किं दुर्भगोदरगोऽभवः
भूत्वा राजकुमारोपि नालंकुर्या ममोदरम्
अधिजानुधराजानेर्मानेन परिबृंहितम्
कुक्षिं हित्वा किमवसः सुरुचेश्च सुरोचिषम्
पतन्निपीतबाष्पांबुर्धैर्यात्किंचिन्न चोक्तवान्
नियंत्रितो महिष्याश्च तस्याः सौभाग्यगौरवात्
शैशवैः स शिशुर्नत्वा नृपं स्वसदनं ययौ
सुखलक्ष्म्यैवचाज्ञासीद्ध्रुवं समवमानितम् 4.1.19.
किंचित्परिम्लानमिव ससांत्वं परिषस्वजे
दीर्घं निःश्वस्य बहुशो मातुरग्रे रुरोद ह
दुकूलांचल संपर्कैर्मृदुलैर्मृदुपाणिना विद्यमाने नरपतौ शिशो केनापमानितः
अपोथसमुपस्पृश्य तांबूलं परिगृह्य च
संपृच्छे जननि त्वाहं सम्यक्शंस ममाग्रतः
कथं न भवती मातः प्रिया क्षितिपतेरसि
कुमारत्वेपि सामान्ये कथं त्वहमनुत्तमः
कथं नृपासनं योग्यमुत्तमस्य कथं न मे
इति श्रुत्वा वचस्तस्य सुनीतिर्नीतिमच्छिशोः
स्वभावमधुरां वाणीं वक्तुं समुपचक्रमे 4.1.19.
निवेदयामि ते सर्वं माऽपमाने मतिं कृथाः
तया यदुक्तं तत्सर्वं तथ्यमेव न चान्यथा
तया जन्मांतरे तात यत्पुण्यं समुपार्जितम्