उवाच च प्रसन्नात्मा स्तुतश्चारणमागधैः
स्थिता सुतासु निःश्वसस्य मंदभाग्या वयं त्विति
इति शृणवन्मुखात्तासां वचनानि विमानगः
इति द्विजवचः श्रुत्वा प्रोचतुर्गणसत्तमौ
वसंतीह प्रजाः स्रष्टुं विनियुक्ताः प्रजासृजा
वसिष्ठश्च महाभागो ब्रह्मणो मानसाः सुताः
संभूतिरनसूया च क्षमा प्रीतिश्च सन्नतिः
एतेषां तपसा चैतद्धार्यते भुवनत्रयम् 4.1.18.
प्रजाः सृजत रे पुत्रा नानारूपाः प्रयत्नतः
अविमुक्तं समासाद्य क्षेत्रंक्षेत्रज्ञधिष्ठितम्
प्रतिष्ठाप्य च लिंगानि ते स्वनाम्नांकितानि च
प्राजापत्येऽत्र ते लोके वसंत्युज्ज्वलतेजसः
लिंगमत्रीश्वरं दृष्ट्वा ब्रह्मतेजोभिवर्धते
तत्र स्नात्वा नरो भक्त्त्या भ्राजते भास्करो यथा
तल्लिंगदर्शनाद्विप्र मारीचं लोकमाप्नुयात्
पुलहेश पुलस्त्येशौ स्वर्गद्वारस्य पश्चिमे
हरिकेशवने रम्ये दृष्ट्वैवांगिरसेश्वरम् 4.1.18.
वरणायास्तटे रम्ये दृष्ट्वा वासिष्ठमीश्वम्
काश्यामेतानि लिंगानि सेवितानि शुभैषिभिः
गणावूचतुः शिवशर्मन्महाभाग तिष्ठते सात्र सुंदरी
यस्याः स्मरणमात्रेण गंगास्नान फलं लभेत्
सदा नारायणो देवो यस्याश्चक्रे कथां मुदा
पतिव्रतास्वरुंधत्याः कमले विमलाशयः
न तद्रूपं न तच्छीलं न तत्कौलीन्यमेव च
न माधुर्यं न गांभीर्यं न चार्यपरितोषणम्
धन्यास्ता योषितो लोके सभाग्याः शुद्धबुद्धयः
यदा पतिव्रतानां तु कथास्मद्भवने भवेत् 4.1.18.३० !। ब्रुवतोरिति संकथां तथा गणयोर्वैष्णवयोर्मुदावहाम्
शिवशर्मोवाच अनेकरशनाव्यग्र हस्ताग्रो व्यग्रलोचनः
त्रिलोकीमंडपस्तंभ सन्निभोभाभिरावृतः
सूत्रधार इव व्योम व्यायामपरिमापकः