मायामयीं ततश्छायां सवर्णां निर्ममे स्वतः
तवाज्ञाकारिणीं देवि शाधि मां करवाणि किम्
अहं यास्यामि सदनं त्वष्टुस्त्वं पुनरत्र मे
मनुरेष यमावेतौ यमुना यम संज्ञकौ
अनाख्येयमिदं वृत्तं त्वया पत्यौ शुचिस्मिते 4.1.17.
आकचग्रहणान्नाहमाशापाच्च कदाचन
इत्यादिश्य सवर्णां सा तथेत्युक्ता सवर्णया
पितः सोढुं न शक्नोमि तेजस्तेजोनिधेरहम्
निशम्योदीरितं तस्याः पित्रानिर्भर्त्सिता बहु
चिंतामवाप महतीं स्त्रीणां धिक्चेष्टितं त्विति
स्वातंत्र्यं न क्वचित्स्त्रीणां धिगस्वातंत्र्यजीवितम्
त्यक्तं भर्तृगृहं मौग्ध्याद्धंत दुवृर्त्तया मया
तत्रास्ति सा सवर्णा वै परिपूर्णमनोरथा
ततोति चंडश्चंडाशुः पित्रोरतिभयंकरः
स्फुटं दृष्टं मयाद्येति स्वकरांगारकर्ष(र्प?)णम् ।। 4.1.17.
वयश्च प्रथमं चारु रूपं त्रैलोक्यकांक्षितम्
पतिश्च तादृक्सर्वज्ञो लोकचक्षुस्तमोपहः
मह्यं श्रेयः कथं वा स्यादिति सा परिचिंत्य च
उत्तरांश्च कुरून्प्राप चरंती नीरसंतृणम् तपोबलेन तत्पत्युः सहिष्ये तेज इत्यलम्
मन्यमानोथ तां संज्ञां सवर्णायां तदा रविः
शनैश्चरं द्वितीयं च सुतां भद्रां तृतीयिकाम्
चकाराभ्यधिकं स्नेहं न तथा पूर्वजेष्वथ
कनिष्ठेष्वधिकं दृष्ट्वा सावर्ण्यादिषु नो यमः
पदा संतर्जयामास यमः संज्ञासरूपिणीम्
जिघांसता त्वया पाप मां यदंघ्रिः समुद्यतः 4.1.17.
ततो भगवते शप्तुमुद्यते सा शशंस ह 4.1.17.
देवौ तस्मादजायेतामश्विनौ भिषजांवरौ 4.1.17.
श्रुत्वाऽध्यायमिमं पुण्यं ग्रहपीडा न जायते
अगस्तिरुवाच इति शृण्वन्कथां रम्यां शिवशर्माऽथ माथुरः
नेत्रयोः प्राघुणी चक्रे ततः सप्तर्षिमंडलम्