अस्य स्तोत्रस्य पठनादपि वागुदियाच्च यम्
समुत्पन्ने महाकार्ये न स बुद्ध्या प्रहीयते
अस्यस्तोत्रस्य पठनान्नियतं मम संनिधौ
अदः स्तोत्रं पठञ्जंतुर्जातुपीडां ग्रहोद्भवाम्
नित्यं प्रातः समुत्थाय यः पठिष्यति मानवः 4.1.17.
त्वत्प्रतिष्ठितलिंगस्य पूजां कृत्वा प्रयत्नतः
इति दत्त्वा वराञ्छंभुः पुनर्ब्रह्माणमाह्वयत्
तानागतान्समालोक्य शिवो व्रह्माणमब्रवीत्
गुरुं सर्वसुरेंद्राणां परितः स्वगुणैर्गुरुम्
अतीव धिषणाधीशो ममप्रीतोभविष्यति
सुरज्येष्ठः सुराचार्यं चकारांगिरसं तदा
गुरुपूजां व्यधुः सर्वे गीर्वाणा मुदिताननाः
पुनरन्यं वरं प्रादाद्गिरीशः पतये गिराम्
भवतास्थापितं लिंगं सुबुद्धिपरिवर्धनम्
गुरुपुष्यसमायोगे लिंगमेतत्समर्च्य च 4.1.17.
बृहस्पतीश्वरं लिंगं मया गोप्यं कलौ युगे
चंद्रेश्वराद्दक्षिणतो वीरेशान्नैर्ऋते स्थितम्
गुर्वंगना गमनजं पापं षण्मास सेवनात्
अतएव हि गोप्तव्यं महापातकनाशनम्
इति दत्त्वा वरान्देवस्तत्रैवांतर्हितो भवत्
अस्मिन्पुरेभिषिच्याथ विसृज्येंद्रादिकान्सुरान्
शिवशर्मा पुरी सौरेः प्रभामंडल मंडिताम्
पृष्टौ तेन च तौ तत्र तां पुरीं प्रददर्शतुः
गणावूचतुः मारीचेः कश्यपाज्जज्ञे दाक्षायण्यां द्विजोष्णगुः
भर्तुरिष्टा ततस्तस्माद्रूपयौवनशालिनी 4.1.17.
आदित्यस्य हि तद्रूपं मंडलस्य तु तेजसा
न खल्वयमृतोंऽडस्थ इति स्नेहादभाषत
तेजस्त्वभ्यधिकं तस्य साऽसहिष्णुर्विवस्वतः
त्रीण्यपत्यानि भो ब्रह्मन्संज्ञायां महसां निधिः
वैवस्वतं मनुं ज्येष्ठं यमं च यमुनां ततः