मरीच्यत्र्यंगिरो मुख्याः सर्वे सृष्टिप्रवर्तकाः
सुतश्चांगिरसो नाम बुद्ध्या विबुधसत्तमः
वेदवेदार्थतत्त्वज्ञः कलासु कुशलोऽमलः
हितोपदेष्टा हितकृदहितात्यहितः सदा
सर्वलक्षणसंभार संभृतो गुरुवत्सलः 4.1.17.
महल्लिंगं प्रतिष्ठाप्य शांभवं भूरिभावनः
ततः प्रसन्नो भगवान्विश्वेशो विश्वभावनः
प्रसन्नोस्मि वरं ब्रूहि यत्ते मनसि वर्तते
शुचिदत्त गृहीत महोपहृते हृतभक्तजनोद्धततापतते
ततसर्वहृदंबर वरदनते नतवृजिनमहावन दाहकृते
निधनादि विवर्जितकृतनतिकृत्कृतिविहितमनोरथपन्नगभृत्
त्रिजगन्मयरूपविरूपसुदृग्दृगुदंचनकुंचन कृतहुतभुक्
प्रसूताखिलभूतलसंवरणप्रणवध्वनिसौधसुधांशुधर
शिवदेव गिरीश महेश विभो विभवप्रद गिरिश शिवेशमृड
न कृतांत त एष बिभेभि हरप्रहराशु महाघममोघमते 4.1.17.
विततेऽत्र जगत्यखिलेऽघहरं हर तोषणमेव परं गुणवन्
इति स्तुत्वा महादेवं विररामांगिरः सुतः
नाम्ना बृहस्पतिरिति ग्रहेष्वर्च्योभव द्विज
अस्माल्लिंगार्चनान्नित्यं जीवभूतोसि मे यतः
वाचां प्रपंचैश्चतुरैर्निष्प्रपंचो यतः स्तुतः
अस्य स्तोत्रस्य पठनादपि वागुदियाच्च यम्
समुत्पन्ने महाकार्ये न स बुद्ध्या प्रहीयते
अस्यस्तोत्रस्य पठनान्नियतं मम संनिधौ
अदः स्तोत्रं पठञ्जंतुर्जातुपीडां ग्रहोद्भवाम्
नित्यं प्रातः समुत्थाय यः पठिष्यति मानवः 4.1.17.
त्वत्प्रतिष्ठितलिंगस्य पूजां कृत्वा प्रयत्नतः
इति दत्त्वा वराञ्छंभुः पुनर्ब्रह्माणमाह्वयत्
तानागतान्समालोक्य शिवो व्रह्माणमब्रवीत्
गुरुं सर्वसुरेंद्राणां परितः स्वगुणैर्गुरुम्
अतीव धिषणाधीशो ममप्रीतोभविष्यति