न तेषां ग्रहपीडा च कदाचित्क्वापि जायते
उपरागसमं पर्व तदुक्तं कालवेदिभिः
श्रद्धया श्राद्धदा ये वै चतुर्थ्यंगारयोगतः
अंगारकचतुर्थ्यां तु पुरा जज्ञे गणेश्वरः
एकभक्तव्रती तत्र संपूज्य गणनायकम् 4.1.17.
अंगारेश्वर भक्ता ये वाराणस्यां नरोत्तमाः
अगस्त्य उवाच इत्थं कथयतोरेव रम्यां पुण्यवतीं कथाम्
नेत्रानंदकरीं दृष्ट्वा शिवशर्माऽथ तां पुरीम्
अध्वखेदापनोदाय पुनरस्याः पुरः कथाम्
विधेर्विधित्सतः पूर्वं त्रिलोकीरचनां मुदा
मरीच्यत्र्यंगिरो मुख्याः सर्वे सृष्टिप्रवर्तकाः
सुतश्चांगिरसो नाम बुद्ध्या विबुधसत्तमः
वेदवेदार्थतत्त्वज्ञः कलासु कुशलोऽमलः
हितोपदेष्टा हितकृदहितात्यहितः सदा
सर्वलक्षणसंभार संभृतो गुरुवत्सलः 4.1.17.
महल्लिंगं प्रतिष्ठाप्य शांभवं भूरिभावनः
ततः प्रसन्नो भगवान्विश्वेशो विश्वभावनः
प्रसन्नोस्मि वरं ब्रूहि यत्ते मनसि वर्तते
शुचिदत्त गृहीत महोपहृते हृतभक्तजनोद्धततापतते
ततसर्वहृदंबर वरदनते नतवृजिनमहावन दाहकृते
निधनादि विवर्जितकृतनतिकृत्कृतिविहितमनोरथपन्नगभृत्
त्रिजगन्मयरूपविरूपसुदृग्दृगुदंचनकुंचन कृतहुतभुक्
प्रसूताखिलभूतलसंवरणप्रणवध्वनिसौधसुधांशुधर
शिवदेव गिरीश महेश विभो विभवप्रद गिरिश शिवेशमृड
न कृतांत त एष बिभेभि हरप्रहराशु महाघममोघमते 4.1.17.
विततेऽत्र जगत्यखिलेऽघहरं हर तोषणमेव परं गुणवन्
इति स्तुत्वा महादेवं विररामांगिरः सुतः
नाम्ना बृहस्पतिरिति ग्रहेष्वर्च्योभव द्विज
अस्माल्लिंगार्चनान्नित्यं जीवभूतोसि मे यतः
वाचां प्रपंचैश्चतुरैर्निष्प्रपंचो यतः स्तुतः