तुष्टावाष्टतनुं तुष्टः प्रफु ल्ल नयनांचलः 4.1.16.
भार्गव उवाच त्वं भाभिराभिरभिभूय तमः समस्तमस्तं नयस्यभिमतानि निशाचराणाम्
अष्टमूर्त्यष्टकेनेष्टं परिष्टूयेति भार्गवः 4.1.16.
अत्यर्कमत्यग्निं(?) च ते तेजो व्योम्न्यतितारकम् 4.1.16.
अगस्त्य उवाच इत्थं सधर्मिणि कथां शुक्रलोकस्य सुव्रते 4.1.16.
यस्याः श्रवणमात्रेण प्रीणिते श्रवणे मम
कस्य पुण्यनिधेर्लोकः शोकहृत्त्वेष निर्मलः
धयित्वा श्रोत्रपात्राभ्यां वाणीममृतरूपिणीम्
उत्पत्तिं चास्य वक्ष्यावो भूसुतोयं यथाभवत्
पुरा तपस्यतः शंभोर्दाक्षायण्या वियोगतः
ततः कुमारः संजज्ञे लोहितांगो महीतलात्
माहेय इत्यतः ख्यातिं परामेष गतः सदा
असिश्च वरणा चापि सरितौ यत्र शोभने
सर्वगोपि हि विश्वेशो यत्र नित्यं प्रकाशते
अमृतं हि भवंत्येव मृता यत्र शरीरिणः 4.1.17.
अपुनर्भवदेहास्ते येऽविमुक्रेतनुत्यजः
संस्थाप्य लिंगं विधिना स्वनाम्नांगारकेश्वरम्
ज्वलदंगारवत्तेजो यावत्तस्यशरीरतः
ततोंगारक नाम्ना स सर्वलोकेषु गीयते
अंगारक चतुर्थ्यां ये स्नात्वोत्तरवहांभसि
न तेषां ग्रहपीडा च कदाचित्क्वापि जायते
उपरागसमं पर्व तदुक्तं कालवेदिभिः
श्रद्धया श्राद्धदा ये वै चतुर्थ्यंगारयोगतः
अंगारकचतुर्थ्यां तु पुरा जज्ञे गणेश्वरः
एकभक्तव्रती तत्र संपूज्य गणनायकम् 4.1.17.
अंगारेश्वर भक्ता ये वाराणस्यां नरोत्तमाः
अगस्त्य उवाच इत्थं कथयतोरेव रम्यां पुण्यवतीं कथाम्
नेत्रानंदकरीं दृष्ट्वा शिवशर्माऽथ तां पुरीम्
अध्वखेदापनोदाय पुनरस्याः पुरः कथाम्
विधेर्विधित्सतः पूर्वं त्रिलोकीरचनां मुदा