इत्याद्यैस्तु गणैरुग्रैरंधकोप्यंधकीकृतः 4.1.16.
ततः कोलाहलो जातः प्रमथासुरसैन्ययोः
छिद्रान्वेषी भ्रमन्सोथ विनिःकेतो यथानिलः
ब्रह्मनारायणेंद्राणामादित्याप्यरसां तथा
सवर्षाणां शतं कुक्षौ भवस्य परितो भ्रमन्
शांभवेनाथयोगेन शुक्ररूपेण भार्गवः
शुक्रवन्निःसृतोयस्मात्तस्मात्त्वं भृगुनंदन
जठरान्निर्गते शुक्रे देवोपि मुमुदेतराम्
इत्येवमुक्तो देवेन शुक्रोर्कसदृश द्युतिः
शुक्रोदयान्मुदं लेभे स दानव महार्णवः
अंधकांधकहंत्रोर्वै वर्तमाने महाहवे 4.1.16.
यथा च विद्यां तां प्राप मृतसंजीवनीं पराम्
अंडजस्वेदजोद्भिज्जजरायुज गतिप्रदाम्
संस्थाप्य लिंगं श्रीशंभोः कूपं कृत्वा तदग्रतः
राजचंपकधत्तूर करवीरकुशेशयैः
मल्लिकाशतपत्रीभिः सिंदुवारैः सकिंशुकैः
क्षुद्राभिर्माधवीभिश्च पाटला बिल्वचंपकैः
मंदारैर्बिल्वपत्रैश्च द्रोणैर्मरुबकैर्बकैः
तुलसी देवगंधारी बृहत्पत्री कुशांकुरैः
कांचनारैः कुरबकैर्दूर्वांकुर कुरंटकैः
पत्रैः शतसहस्रैश्च स समानर्च शंकरम् 4.1.16.
स्नपयामास देवेशं सुगंधस्नपनैर्बहु
समालिलिंप देवेशं सुगंधोद्वर्तनान्यनु
नाम्नां सहस्रैरन्यैश्च स्तोत्रैस्तुष्टाव शंकरम्
यदा देवं नालुलोके मनागपि वरोन्मुखम्
प्रक्षाल्य चेतसो त्यंतं चांचल्याख्यं महामलम्
निर्मलीकृत्य तच्चेतो रत्नं दत्त्वा पिनाकिने
प्रससाद तदा देवो भार्गवाय महात्मने
उवाच च विरूपाक्षः साक्षाद्दाक्षायणीपतिः
निशम्येति वचः शंभोरंभोजनयनो द्विजः