अयं स शुक्रो भगवन्नितीदं निवेदयामास भवाय शीघ्रम् 4.1.16.
न किंचिदुक्त्वा स हि भूतगोप्ता चिक्षेप वक्त्रे फलवत्कवींद्रम्
काव्ये निगीर्णे गिरिजेश्वरेण दैत्या जयाशा रहिता बभूवुः
शरीर हीना इव जीवसंघा द्विजा यथा चाध्ययनेन हीनाः
पत्या विहीनाश्च यथैव योषा यथा विपक्षा इव मार्गणौघाः
विना यथा वैभवशक्तिमेकां भवंति हीनाः स्वफलैः क्रियौघाः
नंदिनापहृते शुक्रे गिलिते च विषादिना
तान्वीक्ष्य विगतोत्साहानंधकः प्रत्यभाषत
तनूर्विना हृताः प्राणाः सर्वेषामद्य तेन नः
युगपन्नो हृतं सर्वमेकस्मिन्भार्गवे हृते गुरुः सर्वसमर्थश्च त्राता त्रातो न चापदि
तद्धैर्यमवलंब्येह युध्यध्वमरिभिः सह 4.1.16.
अद्यैतान्विवशान्हत्वा सह देवैः सवासवैः
स चापि योगी योगेन यदि नाम स्वयं प्रभुः
इत्यंधकवचः श्रुत्वा दानवा मेघनिःस्वनाः
सत्यायुपि न नो जातु शक्ताः स्युः प्रमथाबलात्
ये स्वामिनं विहायाजौ बहुमानधना जनाः
अयशस्तमसा ख्यातिं मलिनीकृत्यभूरिशः
किं दानैः किं तपोभिश्च किं तीर्थपरिमज्जनैः
संप्रधार्येति तेऽन्योन्यं दैत्यास्ते दनुजास्तथा
तत्र वाणासिवज्रौघैः कटंकटशिलामयैः
खट्वांगैः पट्टिशैः शूलैर्लकुटैर्मुसलैरलम् 4.1.16.
कार्मुकाणां विकृष्टानां पततां च पतत्रिणाम्
रणतूर्यनिनादैश्च गजानां बहुबृंहितैः
प्रतिस्वनैरवापूरि द्यावाभूम्योर्यदंतरम्
गजवाजिमहाराव स्फुटच्छब्दग्रहाणि च
रुधिरोद्गार चित्राणि व्यश्वहस्तिरथानि च
दृष्ट्वा सैन्यं च प्रमथैर्भज्यमानमितस्ततः
शरवज्रप्रहारैस्तैर्वज्राघातैर्नगा इव
यांतमायांतमालोक्य दूरस्थं निकटस्थितम्
विनायकेन स्कंदेन नंदिना सोमनंदिना