कुंजरा इव सिंहेभ्यो गरुडेभ्य इवोरगाः 4.1.16.
वज्रव्यूहमनिर्भेद्यं विविशुर्देत्यदानवाः
वयं त्वच्छरणं भूत्वा पर्वता इव निश्चलाः
आप्तभावेन च वयं पादौ तव सुखप्रदौ
अभिरक्षाभितो विप्र प्रसन्नः शरणागतान्
पाकं कार्तस्वनं चैव विपाकं पाकहारिणम्
प्रमथैर्भीमविक्रांतैः क्रांतं मृत्युप्रमाथिभिः
या पीत्वा कणधूमं वै सहस्रं शरदां पुरा
अथ विद्याफलं तत्ते दैत्यान्संजीवयिष्यतः
इत्यंधकवचः श्रुत्वा स्थिरधीर्भार्गवोमुनिः
दानवाधिपते सर्वं तथ्यं यद्भाषितं त्वया 4.1.16.
पीत्वा वर्षसहस्रं वै कणधूमं सुदुःसहम्
एतया विद्यया सोहं प्रमयैर्मथितान्रणे
निर्व्रणान्नीरुजः स्वस्थान्सुप्त्वेव पुनरुत्थितान्
इत्युक्त्वा दानवपतिं विद्यामावर्तयत्कविः
वेदा इव सदभ्यस्ताः समये वा यथांबुदाः
उज्जीवितांस्तु तान्दृष्ट्वा तुहुंडाद्यान्महासुरान्
शुक्रेणोजीवितान्दृष्ट्वा दानवांस्तान्गणेश्वराः
आश्चर्यरूपे प्रमथेश्वराणां तस्मिंस्तथा वर्तति युद्धयज्ञे
जयेति चोक्त्वा जय योनिमुग्रमुवाच नंदी कनकावदातम्
तद्भार्गवेणाद्य कृतं वृथा नः संजीव्य तानाजिमृतान्विपक्षान् 4.1.16.
तुहुंडहुंडादिकजंभजंभविपाकपाकादि महासुरेंद्राः
यदि ह्यसौ दैत्यवरान्निरस्तान्संजीवयेदत्र पुनःपुनस्तान्
इत्येवमुक्तः प्रमथेश्वरेण स नंदिना वै प्रमथेश्वरेशः
नंदिन्प्रयाहि त्वरितोतिमात्रं द्विजेंद्रवर्यं दितिनंदनानाम्
स एव मुक्तो वृषभध्वजेन ननाद नंदी वृषसिंहनादः
तं रक्ष्यमाणं दितिजैः समस्तैः पाशासिवृक्षोपलशैलहस्तैः
स्रस्तांबरं विच्युतभूषणं च विमुक्तकेशं बलिना गृहीतम्
दंभोलि शूलासिपरश्वधानामुद्दंडचक्रोपल कंपनानाम्
तं भार्गवं प्राप्य गणाधिराजो मुखाग्निना शस्त्रशतानि दग्ध्वा