जगाम काशीं निर्वाणराशिं विश्वेशपालिताम्
तपश्चचार चात्युग्रमुग्रं संशीलयन्हृदि
ततो विश्वपतिः श्रीमान्विश्वेशो विश्वभावनः 4.1.15.
उवाच च प्रसन्नात्मा ज्योतीरूपो महेश्वरः
तवानेनाति तपसा लिंगसंशीलनेन च
इति श्रुत्वा वचः सोथ मेघगंभीर निःस्वनम्
उन्मील्यलोचने यावत्पुरः पश्यति बालकः
बुध उवाच नमः पूतात्मने तुभ्यं ज्योतीरूप नमोस्तु ते
नमः सर्वार्ति नाशाय प्रणतानां शिवात्मने
कृपालवे नमस्तुभ्यं भक्तिगम्याय ते नमः
शंभो शिवशिवाकांत शांतश्री कंठशूलभृत्
पिनाकपाणे गिरिश शितिकंठ सदाशिव
स्तुतिकर्तुं न जानामि स्तुतिप्रिय महेश्वर 4.1.15.
अयमेव वरो नाथ प्रसन्नोसि यदीश्वर
ततः प्राह महेशानस्तत्स्तुत्या परितोषितः
नक्षत्रलोकादुपरि तव लोको भविष्यति
त्वयेदं स्थापितं लिंगं सर्वेषां बुद्धिदायकम्
इत्युक्त्वा भगवाञ्छंभुस्तत्रैवांतरधीयत
गणावूचतुः काश्यां बुधेश्वरसमर्चनलब्धबुद्धिः संसारसिंधुमधिगम्य नरो ह्यगाधम्
चंद्रेश्वरात्पूर्वभागे दृष्ट्वा लिंगं बुधेश्वरम्
गणौ यावत्कथामित्थं चक्राते बुधलोकगाम्
शिवशर्मन्महाबुद्धे शुक्रलोकोयमद्भुतः
पीत्वा वर्षसहस्रं वै कणधूमं सुदुःसहम्
इमां विद्यां न जानाति देवाचार्योति दुप्कराम्
शिवशर्मोवाच कोसौ शुक्र इति ख्यातो यस्यायं लोक उत्तमः
आचक्षाथामिदं देवौ यदि प्रीतिर्मयि प्रभू
यां श्रुत्वा चापमृत्युभ्यो हीयंते श्रद्धयायुताः
आजौ प्रवर्तमानायामंधकांधकवैरिणोः
अपसृत्य ततो युद्धादंधकः शुक्रसंनिधिम्
भगवंस्त्वामुपाश्रित्य वयं देवांश्च सानुगान्