किमन्यैर्गुणसंभारैरतोपि न समं विधोः
बृहस्पतेस्स वै भार्यामैश्वर्यमदमोहितः
जहार तरसा तारां रूपवान्रूपशालिनीम् 4.1.15.
नायं कलानिधेर्दोषो द्विजराजस्य तस्य वै
ध्वांतमेतदभितः प्रसारियत्तच्छमाय विधिनाविनिर्मितम्
आधिपत्यमदमोहितं हितं शंसितं स्पृशति नो हरेर्हितम्
धिग्धिगेतदधिकर्द्धि चेष्टितं चंक्रमेक्षणविलक्षितं यतः
कः कामेन न निर्जितस्त्रिजगतां पुष्पायुधेनाप्यहो कः क्रोधस्यवशंगतो ननच को लोभेन संमोहितः
आधिपत्यकमलातिचंचला प्राप्यतां च यदिहार्जितं किल
न यदांगिरसे तारां स व्यसर्जयदुल्बणः
तेन ब्रह्मशिरोनाम परमास्त्रं महात्मना
तयोस्तद्युद्धमभवद्घोरं वै तारकामयम्
निवार्य रुद्रं समरात्संवर्तानलवर्चसम् 4.1.15.
अथांतर्गर्भमालोक्य तारां प्राह बृहस्पतिः
इषीकास्तंबमासाद्य गर्भं सा चोत्ससर्ज ह
ततः संशयमापन्नास्तारामूचुः सुरोत्तमाः
पृच्छमाना यदा देवै र्नाह ताराऽतिसत्रपा
तं निवार्य तदा ब्रह्मा तारां पप्रच्छ संशयम्
तदा स मूर्ध्न्युपाघ्राय राजा गर्भं प्रजापतिः
ततश्च सर्वदेवेभ्यस्तेजोरूपबलाधिकः
जगाम काशीं निर्वाणराशिं विश्वेशपालिताम्
तपश्चचार चात्युग्रमुग्रं संशीलयन्हृदि
ततो विश्वपतिः श्रीमान्विश्वेशो विश्वभावनः 4.1.15.
उवाच च प्रसन्नात्मा ज्योतीरूपो महेश्वरः
तवानेनाति तपसा लिंगसंशीलनेन च
इति श्रुत्वा वचः सोथ मेघगंभीर निःस्वनम्
उन्मील्यलोचने यावत्पुरः पश्यति बालकः
बुध उवाच नमः पूतात्मने तुभ्यं ज्योतीरूप नमोस्तु ते
नमः सर्वार्ति नाशाय प्रणतानां शिवात्मने
कृपालवे नमस्तुभ्यं भक्तिगम्याय ते नमः