नक्षत्रपूजका ये च नक्षत्रव्रतचारिणः
नक्षत्रग्रहराशीनां बाधास्तेषां कदाचन
अगस्त्य उवाच अतिथित्वमवाप नेत्रयोर्बुधलोकः शिवशर्मणस्त्वथ 4.1.15.
शिवशर्मोवाच कस्य लोकोयमतुलो ब्रूतं श्रीभगवद्गणौ
स्वर्गमार्गविनोदाय तापत्रयविनाशिनीम्
योसौ पूर्वं महाकांतिरावाभ्यां परिवर्णितः
दक्षिणा राजसूयस्य येन त्रिभुवनं कृता
अत्रिनेत्रसमुद्भूतः पौत्रो वै द्रुहिणस्य यः
निर्मलानां कलानां च शेवधिर्यश्च गीयते
मुदंकुमुदिनीनांयस्तनोति जगता सह
किमन्यैर्गुणसंभारैरतोपि न समं विधोः
बृहस्पतेस्स वै भार्यामैश्वर्यमदमोहितः
जहार तरसा तारां रूपवान्रूपशालिनीम् 4.1.15.
नायं कलानिधेर्दोषो द्विजराजस्य तस्य वै
ध्वांतमेतदभितः प्रसारियत्तच्छमाय विधिनाविनिर्मितम्
आधिपत्यमदमोहितं हितं शंसितं स्पृशति नो हरेर्हितम्
धिग्धिगेतदधिकर्द्धि चेष्टितं चंक्रमेक्षणविलक्षितं यतः
कः कामेन न निर्जितस्त्रिजगतां पुष्पायुधेनाप्यहो कः क्रोधस्यवशंगतो ननच को लोभेन संमोहितः
आधिपत्यकमलातिचंचला प्राप्यतां च यदिहार्जितं किल
न यदांगिरसे तारां स व्यसर्जयदुल्बणः
तेन ब्रह्मशिरोनाम परमास्त्रं महात्मना
तयोस्तद्युद्धमभवद्घोरं वै तारकामयम्
निवार्य रुद्रं समरात्संवर्तानलवर्चसम् 4.1.15.
अथांतर्गर्भमालोक्य तारां प्राह बृहस्पतिः
इषीकास्तंबमासाद्य गर्भं सा चोत्ससर्ज ह
ततः संशयमापन्नास्तारामूचुः सुरोत्तमाः
पृच्छमाना यदा देवै र्नाह ताराऽतिसत्रपा
तं निवार्य तदा ब्रह्मा तारां पप्रच्छ संशयम्
तदा स मूर्ध्न्युपाघ्राय राजा गर्भं प्रजापतिः
ततश्च सर्वदेवेभ्यस्तेजोरूपबलाधिकः