सिद्धविद्याधरोन्मुक्तमंदारप्रसवासवैः
विरेजुर्योगिनीमुक्तैर्देहलग्नैर्द्विषां हयाः
दंडैः केचित्परे शूलैर्निशितैः केऽपि शक्तिभिः 1.3.2.19.
योगिनीनां परे खड्गैर्दलिता दानवेश्वराः
ब्राह्मी स्वयमुपागम्य विहितायोधनावधीत्
माहेश्वरी त्रिशूलेन सुचिरं कृतसंगरा
शक्त्या लुलाव कौमारी चिक्षुरासुरमस्तकम्
बाष्कलस्याशु वाराही मुसलेनालुनाच्छिरः
ख्यातं यस्याश्च नामेदं तयोरेव निदूषनात्
प्रचण्डचामरौ वीरौ महामौलिं महाहनुम्
अनुजग्मुः क्रुधा यान्तं युद्धाय महिषासुरम्
शिरस्त्रवंतो रथिनः सुनिषंगा धनुर्धराः
समंतात्पूरितदिशः सिंहनादैर्भयंकरैः 1.3.2.19.
ताश्च तैर्बलिभिः कृत्वा संग्रामं निस्सहत्वतः
उक्त्वा मायालुलायस्य दुर्जयत्वं दुरात्मनः
योगनिद्रेति रूपेण विष्णोर्नयनपद्मयोः
अमूमुहस्तं न तथा मातश्च मधुकैटभौ
त्वं कौशिकी न चेज्जाता मृत्युः शुंभनिशंभयोः
विंध्यवासिनि विंध्येन किमवंध्यं कृतं तपः
कापिशायनमापीतं धनदोपायनीकृतम्
ब्रह्मणः सृष्टिशक्तिस्त्वं स्थितिशक्तिर्मधुद्विषः
यशोदानंदजाता त्वमेकानंशेति नामतः
त्वं विद्या त्वं महामाया त्वं लक्ष्मीस्त्वं सरस्वती 1.3.2.19.
महिषासुरयुद्धाय संतुष्टा निर्ययौ तदा
प्रचंडमंडलाग्रेण भिंडिपालेन चामरम्
उग्रवक्त्रं कुठारेण शक्त्या विकटचक्षुषम्
निहत्य महिषस्याग्रे सरोषं युध्यती स्वयम्
अथात्यमर्षितो दुर्गां विशिखैर्महिषासुरः
ततो दुर्गाथ संरंभात्प्रजहारासुरेश्वरम्
ततो दैत्यस्त्रिभिर्दुर्गां जघान विशिखैर्मुखे