सलब्धतेजा भगवान्ब्रह्मणा वर्धितः स्वयम्
अविमुक्तं समासाद्य क्षेत्रं परमपावनम्
बीजौषधीनां तोयानां राजाभूदग्रजन्मनाम्
तत्र कूपं विधायैकममृतोदमिति स्मृतम्
तुष्टेनदेवदेवेन स्वमौलौ यो धृतः स्वयम्
पश्चाद्दक्षेण शप्तोपि मासोने क्षयमाप्य च
स तत्प्राप्य महाराज्यं सोमः सोमवतां वरः 4.1.14.
दक्षिणामददत्सोमस्त्रींल्लोकानिति नौ श्रुतम्
हिरण्यगर्भो ब्रह्माऽत्रिर्भृगुर्यत्रर्त्विजोभवन्
तंसिनी च कुहूश्चैव द्युतिः पुष्टिः प्रभावसुः
उमया सहितं रुद्रं संतर्प्याध्वरकर्मणा
तत्रैव तप्तवान्सोमस्तपः परमदुष्करम्
तत्रैव ब्राह्मणैः प्रीतैरित्युक्तोसौ कलानिधिः
तत्रैव देवदेवस्य विलोचनपदं गतः
त्वं ममास्य परामूर्तिरित्युक्तस्तत्तपोबलात्
त्वत्पीयूषमयैर्हस्तैः स्पृष्टमेतच्चराचरम्
एतदुक्त्वा महेशानो वरानन्यानदान्मुदा 4.1.14.
यच्च क्रतु क्रियोत्सर्गस्त्वया मह्यं निवेदितः
ततोत्र लिंगे त्वन्नाम्नि सोमसोमार्धरूपधृक्
अहोरात्रं वसिष्यामि त्रैलोक्यैश्वर्यसंयुतः
जपहोमार्चनध्यानदानब्राह्मणभोजनम्
जीर्णोद्धारादिकरणं नृत्यवाद्यादिकार्पणम्
चंद्रेश्वरे कृतं सर्वं तदानंत्याय जायते
अभक्ताय च नाख्येयं नास्तिकाय श्रुतिद्रुहे
तदोपवासः कर्तव्यो भूतायां सद्भिरादरात्
शनिप्रदोषे संपूज्य लिंगं चंद्रेश्वराह्वयम्
उपोष्य च चतुर्दश्यां कृत्वा जागरणं निशि 4.1.14.
उपास्य संध्यां विधिवत्कृतसर्वोदक क्रियः
आवाहनार्घ्यरहितं पिंडान्दद्यात्प्रयत्नतः
मातामहांस्तथोद्दिश्य तथान्यानपि गोत्रजान्