अजैकपादहिर्बुध्न्य मुख्या एकादशापि वै
पुर्यष्टकं च दुष्टेभ्यो देवध्रुग्भ्यो ह्यवंति ते
एतैरपि तपस्तप्तं प्राप्य वाराणसीं पुरीम्
ईशानेश प्रसादेन दिश्यैश्यां हि दिगीश्वराः
भालनेत्रा नीलगलाः शुद्धांगा वृषभध्वजाः
तेऽस्यां पुरि वसंत्यैश्यां सर्वभोगसमृद्धयः
विपन्नास्तेन पुण्येन जायंते ऽत्रपुरोहिताः 4.1.14.
त एव रुद्रा विज्ञेया इहामुत्राप्यसंशयम्
उपोष्यभूतांयांकांचिन्न नरो गर्भभाक्पुनः
शिवशर्मा दिवाप्युच्चैरपश्यच्चंद्रचंद्रिकाम्
चमत्कृत्य चमत्कृत्य कोयं लोको हरेर्गणौ
गणावूचतुः शिवशर्मन्महाभाग लोक एष कलानिधेः
पिता सोमस्य भो विप्र जज्ञेऽत्रिर्भगवानृषिः
अनुत्तरं नाम तपो येन तप्तं हि तत्पुरा
ऊर्ध्वमाचक्रमे तस्य रेतः सोमत्वमीयिवत्
तं गर्भं विधिना दिष्टा दश देव्यो दधुस्ततः
यदा न धारणे शक्तास्तस्य गर्भस्य ता दिशः 4.1.14.
पतितं सोममालोक्य ब्रह्मा लो कपितामहः
स तेन रथमुख्येन सागरांतां वसुंधराम्
तस्य यत्प्लवितं तेजः पृथिवीमन्वपद्यत
सलब्धतेजा भगवान्ब्रह्मणा वर्धितः स्वयम्
अविमुक्तं समासाद्य क्षेत्रं परमपावनम्
बीजौषधीनां तोयानां राजाभूदग्रजन्मनाम्
तत्र कूपं विधायैकममृतोदमिति स्मृतम्
तुष्टेनदेवदेवेन स्वमौलौ यो धृतः स्वयम्
पश्चाद्दक्षेण शप्तोपि मासोने क्षयमाप्य च
स तत्प्राप्य महाराज्यं सोमः सोमवतां वरः 4.1.14.
दक्षिणामददत्सोमस्त्रींल्लोकानिति नौ श्रुतम्
हिरण्यगर्भो ब्रह्माऽत्रिर्भृगुर्यत्रर्त्विजोभवन्
तंसिनी च कुहूश्चैव द्युतिः पुष्टिः प्रभावसुः