प्रतिष्ठंते तथा व्याघ्रवाहाः कुवलयत्विषः
रोषारुणसहस्राक्ष्यो वलक्षद्विपवाहनाः
अश्वारूढा समापेतुरेकाः सौदामिनीनिभाः ।। 1.3.2.19.
ताश्च कोटिचतुःषष्टिमसुरानाश्रमाद्बहिः
ततश्च योगिनीचक्रदानवानीकयोर्मिथः
सायकैर्योगिनीमुक्तैर्दलिता दैत्यमौलयः
प्रसस्रू रक्तसरितो लगत्कैशिकशैवलाः
वेतण्डतुण्डान्यारुह्य सौधानिव पिशाचिकाः
कपालैर्दैत्यवीराणामघासुरसृगासवान्
परिजह्रुस्तथांत्राणि कंकौघाः पाशशंकया
सिद्धविद्याधरोन्मुक्तमंदारप्रसवासवैः
विरेजुर्योगिनीमुक्तैर्देहलग्नैर्द्विषां हयाः
दंडैः केचित्परे शूलैर्निशितैः केऽपि शक्तिभिः 1.3.2.19.
योगिनीनां परे खड्गैर्दलिता दानवेश्वराः
ब्राह्मी स्वयमुपागम्य विहितायोधनावधीत्
माहेश्वरी त्रिशूलेन सुचिरं कृतसंगरा
शक्त्या लुलाव कौमारी चिक्षुरासुरमस्तकम्
बाष्कलस्याशु वाराही मुसलेनालुनाच्छिरः
ख्यातं यस्याश्च नामेदं तयोरेव निदूषनात्
प्रचण्डचामरौ वीरौ महामौलिं महाहनुम्
अनुजग्मुः क्रुधा यान्तं युद्धाय महिषासुरम्
शिरस्त्रवंतो रथिनः सुनिषंगा धनुर्धराः
समंतात्पूरितदिशः सिंहनादैर्भयंकरैः 1.3.2.19.
ताश्च तैर्बलिभिः कृत्वा संग्रामं निस्सहत्वतः
उक्त्वा मायालुलायस्य दुर्जयत्वं दुरात्मनः
योगनिद्रेति रूपेण विष्णोर्नयनपद्मयोः
अमूमुहस्तं न तथा मातश्च मधुकैटभौ
त्वं कौशिकी न चेज्जाता मृत्युः शुंभनिशंभयोः
विंध्यवासिनि विंध्येन किमवंध्यं कृतं तपः
कापिशायनमापीतं धनदोपायनीकृतम्