करालो दुर्द्धरस्तस्य विचष्णुर्विकरालकः
महाहनुर्महामौलिरुग्रास्यो विकटेक्षणः
कोलाहलमिमं श्रुत्वा देवी नियमविघ्नतः 1.3.2.19.
सारुणाद्रिरहोद्रोण्यामधिरूढा मृगाधिपम्
घनाघनरवोदग्रं सिंहनादमचीकरत्
स्वांगेभ्यो योगिनीचक्रं मातरोऽप्यसृजन्रुषा
काश्चित्तत्रारुणच्छाया दंडिन्यो हंसवाहनाः
निर्ययुः काश्चन क्रुद्धा ज्वलत्त्रिशिखपाणयः
निर्जग्मुरपराः सेनासहिताः शिखिवाहनैः
निश्चक्रमुः परास्तार्क्ष्यमधिरुह्याधिकक्रुधा
प्रतिष्ठंते तथा व्याघ्रवाहाः कुवलयत्विषः
रोषारुणसहस्राक्ष्यो वलक्षद्विपवाहनाः
अश्वारूढा समापेतुरेकाः सौदामिनीनिभाः ।। 1.3.2.19.
ताश्च कोटिचतुःषष्टिमसुरानाश्रमाद्बहिः
ततश्च योगिनीचक्रदानवानीकयोर्मिथः
सायकैर्योगिनीमुक्तैर्दलिता दैत्यमौलयः
प्रसस्रू रक्तसरितो लगत्कैशिकशैवलाः
वेतण्डतुण्डान्यारुह्य सौधानिव पिशाचिकाः
कपालैर्दैत्यवीराणामघासुरसृगासवान्
परिजह्रुस्तथांत्राणि कंकौघाः पाशशंकया
सिद्धविद्याधरोन्मुक्तमंदारप्रसवासवैः
विरेजुर्योगिनीमुक्तैर्देहलग्नैर्द्विषां हयाः
दंडैः केचित्परे शूलैर्निशितैः केऽपि शक्तिभिः 1.3.2.19.
योगिनीनां परे खड्गैर्दलिता दानवेश्वराः
ब्राह्मी स्वयमुपागम्य विहितायोधनावधीत्
माहेश्वरी त्रिशूलेन सुचिरं कृतसंगरा
शक्त्या लुलाव कौमारी चिक्षुरासुरमस्तकम्
बाष्कलस्याशु वाराही मुसलेनालुनाच्छिरः
ख्यातं यस्याश्च नामेदं तयोरेव निदूषनात्
प्रचण्डचामरौ वीरौ महामौलिं महाहनुम्