गृहाणेमं स्वतनयं पार्षदे शंकराज्ञया
समाधिसमये सर्वमिति शृण्वन्नुदारधीः
संपश्यते शिशुं तावत्पुरतः समवैक्षत
तोयार्द्रकाकपक्षाग्रं कषायनयनांचलम्
कृतप्रणाममालिंग्य जिघ्रंस्तन्मुखपंकजम्
शतानिपंचवर्षाणि प्रणिधानस्थितस्य हि
कर्दमोपि च तत्कालमज्ञासीत्क्षणसंगतम्
ततस्तं तनयः पृष्ट्वा पितरं प्रणिपत्य च
तत्र तप्त्वा तपो घोरं लिंगं संस्थाप्य शांभवम् 4.1.12.
आविरासीन्महादेवस्तुष्टस्तत्तपसा ततः
कार्दमिरुवाच यदि नाथ प्रसन्नोसि भक्तानामनुकंपक
इति श्रुत्वा महेशानः सर्वचिंतितदः प्रभुः
रत्नानामब्धिजातानामब्धीनां सरितामपि
जलाशयानां सर्वेषां प्रतीच्याश्चापि वैदिशः
ददामि वरमन्यं च सर्वेषां हितकारकम्
वरुणेशमिति ख्यातं वाराणस्यां सुसिद्धिदम्
आराधितं सदा पुंसां सर्वजाड्यविनाशकृत्
न संतापभयं तेषां नापायमरणं क्वचित्
नीरसान्यन्नपानानि वरुणेश्वर संस्मृतेः 4.1.12.
इदं वरुणलोकस्य स्वरूपं ते निरूपितम्
गणावूचतुः इमां गंधवतीं पुण्यां पुरीं वायोर्विलोकय
अस्यां प्रभंजनो नाम जगत्प्राणोदिगीश्वरः
पुरा कश्यपदायादः पूतात्मेति च विश्रुतः
वाराणस्यां महाभागो वर्षाणामयुतं शतम्
यस्य दर्शनमात्रेण पूतात्मा जायते नरः
उवाच च प्रसन्नात्मा करुणामृतसागरः
अनेन तपसोग्रेण लिंगस्याराधनेन च
देवदेवमहादेव देवानामभयप्रद
वेदास्त्वां न च विंदंति किमात्मक इति प्रभो 4.1.13.
ब्रह्मविष्ण्वोपि गिरां गोचरो न च वाक्पतेः