करताडितपानीयशब्ददिङ्मुखनादिभिः
तेषां मध्ये ददर्शाथ समाधिस्थः स कर्दमः
कयाचिज्जलदेव्याथ तस्माच्चक्रूरयादसः
निर्भर्त्स्य सरितांनाथं केनचिद्रुद्ररूपिणा
कुतो जलानामधिप शिवभक्तस्य बालकः
अज्ञात्वा शिवसामर्थ्यं भवताचिरमासितः
बालं रत्नैरलंकृत्य बद्ध्वा तं शिशुमारकम्
नत्वा विज्ञापयत्तं च नापराध्याम्यहं विभो
भक्तकल्पतरो शंभोऽनेनायं दुष्टयादसा 4.1.12.
गणेन तेन विज्ञाय शंभोरथ मनोगतम्
गृहाणेमं स्वतनयं पार्षदे शंकराज्ञया
समाधिसमये सर्वमिति शृण्वन्नुदारधीः
संपश्यते शिशुं तावत्पुरतः समवैक्षत
तोयार्द्रकाकपक्षाग्रं कषायनयनांचलम्
कृतप्रणाममालिंग्य जिघ्रंस्तन्मुखपंकजम्
शतानिपंचवर्षाणि प्रणिधानस्थितस्य हि
कर्दमोपि च तत्कालमज्ञासीत्क्षणसंगतम्
ततस्तं तनयः पृष्ट्वा पितरं प्रणिपत्य च
तत्र तप्त्वा तपो घोरं लिंगं संस्थाप्य शांभवम् 4.1.12.
आविरासीन्महादेवस्तुष्टस्तत्तपसा ततः
कार्दमिरुवाच यदि नाथ प्रसन्नोसि भक्तानामनुकंपक
इति श्रुत्वा महेशानः सर्वचिंतितदः प्रभुः
रत्नानामब्धिजातानामब्धीनां सरितामपि
जलाशयानां सर्वेषां प्रतीच्याश्चापि वैदिशः
ददामि वरमन्यं च सर्वेषां हितकारकम्
वरुणेशमिति ख्यातं वाराणस्यां सुसिद्धिदम्
आराधितं सदा पुंसां सर्वजाड्यविनाशकृत्
न संतापभयं तेषां नापायमरणं क्वचित्
नीरसान्यन्नपानानि वरुणेश्वर संस्मृतेः 4.1.12.
इदं वरुणलोकस्य स्वरूपं ते निरूपितम्