ततो ऽयुध्यन्दुराचारास्तेनैकेन च तेऽखिलाः
आच्छिन्नं हि धनुर्वाणं छिन्नं सन्नहनं शरैः
अभिलप्यन्निति प्राणानत्याक्षीत्स परार्थतः
या मतिस्त्वंतकाले स्याद्गतिस्तदनुरूपतः
इत्थमस्य स्वरूपं ते आवाभ्यां समुदीरितम्
कूपवापीतडागानां कर्तारो निर्मलैर्धनैः
निर्जले जलदातारः परसंतापहारिणः
पानीयशालिकाः कुर्युर्नानोपस्करसंयुताः
अश्वत्थसेकं ये कुर्युः पथि पादपरोपकाः 4.1.12.
ग्रीष्मोष्प्रहंति मायूरपिच्छादि रचितान्यपि
रसवंति सुगंधीनि हिमवंति तपर्तुषु
इक्षुक्षेत्राणि संकल्प्य ब्राह्मणेभ्यो ददत्यपि
गोरसानां प्रदातारस्तथा गोमहिषीप्रदाः
देवालयेषु ये दद्युर्बहुधारागलंतिकाः
अभयं ये प्रयच्छंति भयार्तोद्यत पाणयः
विपाशयंति ये पुण्या दुर्वृतैः कंठपाशितान्
नौकाद्युपायैर्न द्यादौ पांथान्ये तारयंत्यपि
घट्टान्पुण्यतटिन्यादेर्बंधयंति शिलादिभिः
वितर्पयंति ये पुण्यास्तृषिताञ्शीतलैर्जलैः 4.1.12.
जलाशयानां सर्वेषामयमेकतमः पतिः
अस्योत्पत्तिं शृणु पतेर्वरुणस्यमहात्मनः
शुचिष्मानिति विख्यातस्तनयो विनयोचितः
अच्छोदे सरसि स्नातुं स गतो बालकैः सह
ततस्तस्मिन्मुनिसुते हृतेऽत्याहितशंसिभिः
हरार्चनोपविष्टस्य समाधौ निश्चलात्मनः
अधिकं शीलयामास स सर्वज्ञं त्रिलोचनम्
नाना भूतानि भूतानि ब्रह्मांडांतर्गतानि च
समुद्रानंतरीयाणि ह्यरण्यानीस्सरांसि च
वापीकूपतडागानि कुल्याः पुष्करिणीर्बहु 4.1.12.
बहून्मुनिकुमारांश्च मज्जनोन्मज्जनादिभिः