मृगत्त्वचोतिमृदुला विवस्त्रेभ्यातिसर्जति
न जिघृक्षति तेभ्योर्थमभयं चेति यच्छति
नित्यं कार्पटिकान्सर्वान् स पुत्रेण प्रपश्यति
इति तिष्ठति पिंगाक्षे साटवी नगरायिता
कदाचित्तत्पितृव्येण समीप ग्रामवासिना
लुब्धकस्तद्धने लुब्धः क्षुद्रस्तन्निधनोद्यतः
तदा युप्यस्यशेषेण पिंगाक्षो मृगयां गतः
परप्राणद्रुहां पुंसां न सिद्ध्येयुर्मनोरथाः
न चिंतयेदनिष्टानि तस्मात्कृष्टिः कदाचन 4.1.12.
तस्मादात्मसुखंप्रेप्सु रिष्टानिष्टं न चिंतयेत्
व्युष्टायामथयामिन्यामभूत्कोलाहलो महान्
मा मारयध्वं त्रायध्वं भटाः कार्पटिका वयम्
वयं पांथा अनाथाः स्मो विश्वनाथपरायणाः
वयं पिंगाक्षविश्वासादस्मिन्मार्गेऽकुतोभयाः
इति श्रुत्वाऽथ पिंगाक्षो भटः कार्पटिकेरितम
तत्कर्मसूत्रैराकृष्टो भिल्लःकार्पटिकप्रियः
कोयंकोयं दुराचारः पिंगाक्षे मयि जीवति
इति तद्वाक्यमाकर्ण्य ताराक्षस्तत्पितृव्यकः
कुलधर्मं व्यपास्यैष वर्तते कुलपांसनः 4.1.12.
विचार्येति स दुष्टात्मा भृत्यानाज्ञापयत्क्रुधा
ततो ऽयुध्यन्दुराचारास्तेनैकेन च तेऽखिलाः
आच्छिन्नं हि धनुर्वाणं छिन्नं सन्नहनं शरैः
अभिलप्यन्निति प्राणानत्याक्षीत्स परार्थतः
या मतिस्त्वंतकाले स्याद्गतिस्तदनुरूपतः
इत्थमस्य स्वरूपं ते आवाभ्यां समुदीरितम्
कूपवापीतडागानां कर्तारो निर्मलैर्धनैः
निर्जले जलदातारः परसंतापहारिणः
पानीयशालिकाः कुर्युर्नानोपस्करसंयुताः
अश्वत्थसेकं ये कुर्युः पथि पादपरोपकाः 4.1.12.
ग्रीष्मोष्प्रहंति मायूरपिच्छादि रचितान्यपि