शिवशर्मोवाच पुरुषोत्तमपादाब्जपरागोद्धूसरालकौ
गणावूचतुः दिक्पतेर्निर्ऋतस्यासौ पुण्यापुण्यजनोषिता
राक्षसानिवसंत्यस्यामपरद्रोहिणः सदा
स्मृत्युक्तश्रुतिवर्त्मानो जातवर्णावरेष्वपि
परदार परद्रव्य परद्रोहपराङ्मुखाः
द्विजातिभक्त्युत्पन्नार्थैरात्मानं पोषयंति ये
आहूता वस्त्रवदना वदंति द्विजसंनिधौ
तीर्थस्नानपरानित्यं नित्यं देवपरायणाः
दम दान दया क्षांति शौचेंद्रिय विनिग्रहाः
आवश्येषु सदोद्युक्ता ये जाता यत्रकुत्रचित् 4.1.12.
म्लेच्छा अपि सुतीर्थेषु ये मृतानात्मघातकाः
अंधं तमो विशेयुस्ते ये चैवात्महनो जनाः
आत्मघातो न कर्तव्यस्तस्मात्क्वापि विपश्चिता
यथेष्टमरणं केचिदाहुस्तत्त्वावबोधकाः
अंत्यजा अपि ये केचिद्दयाधर्मानुसारिणः
पल्लीपतिरभूदुग्रः पिंगाक्ष इति विश्रुतः
घातयेद्दूरसंस्थोपि यः पांथपरिपंथिनः
जीवेन्मृगयु धर्मेण तत्रापि करुणापरः
न तोयगृध्नून्न शिशून्नांतर्वर्त्नित्वलक्षणान् 4.1.12.
श्रमातुरेभ्यः पांथेभ्यः स विश्रामं प्रयच्छति
मृगत्त्वचोतिमृदुला विवस्त्रेभ्यातिसर्जति
न जिघृक्षति तेभ्योर्थमभयं चेति यच्छति
नित्यं कार्पटिकान्सर्वान् स पुत्रेण प्रपश्यति
इति तिष्ठति पिंगाक्षे साटवी नगरायिता
कदाचित्तत्पितृव्येण समीप ग्रामवासिना
लुब्धकस्तद्धने लुब्धः क्षुद्रस्तन्निधनोद्यतः
तदा युप्यस्यशेषेण पिंगाक्षो मृगयां गतः
परप्राणद्रुहां पुंसां न सिद्ध्येयुर्मनोरथाः
न चिंतयेदनिष्टानि तस्मात्कृष्टिः कदाचन 4.1.12.
तस्मादात्मसुखंप्रेप्सु रिष्टानिष्टं न चिंतयेत्