मृत्युंजयं समाराध्य सर्वज्ञं सर्वदं सताम्
इति श्रुत्वा वचस्तस्य जरितौ द्विजदंपती 4.1.11.
अंधकं यस्त्रिशूलाग्रप्रोतं वर्षायुतं पुरा 4.1.11.
तत्र स्नात्वा विधानेन दृष्ट्वा विश्वेश्वरं विभुम्
आलोक्यालोक्य तल्लिंगं तुतोष हृदये बहु 4.1.11.
विश्वेषां विश्वबीजानां कर्माख्यानां लयो यतः 4.1.11.
उवाच मधुरं धीरः कीरवन्मधुराक्षरम् 4.1.11.
परिज्ञाय महादेवं गुरुवाक्यत आगमात् 4.1.11.
ततः काशीं पुनः प्राप्य कल्पांते मोक्षमाप्नुयात् 4.1.11.
गणावूचतुः इत्थमग्निस्वरूपं ते शिवशर्मन्प्रवर्णितम्
शिवशर्मोवाच पुरुषोत्तमपादाब्जपरागोद्धूसरालकौ
गणावूचतुः दिक्पतेर्निर्ऋतस्यासौ पुण्यापुण्यजनोषिता
राक्षसानिवसंत्यस्यामपरद्रोहिणः सदा
स्मृत्युक्तश्रुतिवर्त्मानो जातवर्णावरेष्वपि
परदार परद्रव्य परद्रोहपराङ्मुखाः
द्विजातिभक्त्युत्पन्नार्थैरात्मानं पोषयंति ये
आहूता वस्त्रवदना वदंति द्विजसंनिधौ
तीर्थस्नानपरानित्यं नित्यं देवपरायणाः
दम दान दया क्षांति शौचेंद्रिय विनिग्रहाः
आवश्येषु सदोद्युक्ता ये जाता यत्रकुत्रचित् 4.1.12.
म्लेच्छा अपि सुतीर्थेषु ये मृतानात्मघातकाः
अंधं तमो विशेयुस्ते ये चैवात्महनो जनाः
आत्मघातो न कर्तव्यस्तस्मात्क्वापि विपश्चिता
यथेष्टमरणं केचिदाहुस्तत्त्वावबोधकाः
अंत्यजा अपि ये केचिद्दयाधर्मानुसारिणः
पल्लीपतिरभूदुग्रः पिंगाक्ष इति विश्रुतः
घातयेद्दूरसंस्थोपि यः पांथपरिपंथिनः
जीवेन्मृगयु धर्मेण तत्रापि करुणापरः
न तोयगृध्नून्न शिशून्नांतर्वर्त्नित्वलक्षणान् 4.1.12.
श्रमातुरेभ्यः पांथेभ्यः स विश्रामं प्रयच्छति