उत्कंटासनगुल्फास्फिग्नाभिरस्यापि वर्तुला
धारैका मूत्रयत्यस्मिन्दक्षिणावर्तिनी यदि 4.1.11.
विस्तीर्णौ मांसलौ स्निग्धौ स्फिचावस्य सुखोचितौ
श्रीवत्सवज्रचक्राब्ज मत्स्यकोदंडदंडभृत्
द्वात्रिंशद्दशनश्चायं करकंबु शिरोधरः
मधुपिंगलनेत्रोऽसौ नैनं श्रीस्त्यजति क्वचित्
ऊर्ध्वरेखांकितपदो निःश्वसन्पद्मगंधवान्
किंतु सर्वगुणोपेतं सर्वलक्षणलक्षितम्
तस्मात्सर्वप्रयत्नेन रक्षणीयस्त्वसौ शिशुः
शंकेऽस्य द्वादशेवर्षे प्रत्यूहो विद्युदग्नितः
विश्वानरः सपत्नीकस्तच्छ्रुत्वा नारदेरितम्
हाहतोस्मीति वचसा हृदयं समताडयत् 4.1.11.
शुचिष्मत्यपि दुःखार्ता रुरोदातीव दुःसहम्
हाशिशो हागुणनिधे हा पितुर्वाक्यकारक
त्वदेकपुत्रां हापुत्रकोऽत्र मां त्रायते पुरा
हा बाल हा विमल हा कमलायताक्ष हा लोकलोचनचकोर कुरंगलक्ष्मन्
हा पूर्णचंद्रमुख हा सुनखांगुलीक हा चाटुकारवचनामृतवीचिपूर
नोप्तो बलिर्न बत कासु च देवता सुतीर्थानि कानि न मयाध्युषितानि वत्स
संसारसागरतरे हर दुःखभारं सारं मुखेंदुमभिदर्शय सौख्यसिंधो
किंदेवता अहह जन्ममहोत्सवेऽस्य ज्ञात्वेति भाविमिलिता युगपत्समस्ताः
शंभो महेश करुणाकर शूलपाणे मृत्युंजयस्त्वमिति वेदविदो वदंति
हा हंतहंतभवता भव तापहारी कस्माद्विधेऽत्र विदधे बहुभिः प्रयत्नैः 4.1.11.
हा कालबालकवती किमुतेन राज्ञी त्वत्कालतां न हृतवान्नसुताननेंदुः
इत्थं विलप्य बहुशो नयनांबुधारासंपातजात तटिनी शतमुत्तरंगम्
आकर्ण्य तत्करुणवत्परिदेवितानि तानि द्रुमा व्रततयः कुसुमाश्रुपातैः
रुण्णं तया किल तथा बहुमुक्तकंठमार्तस्वरैः प्रतिरवच्छलतो यथोच्चैः
श्रुत्वार्तनादमिति विश्वनरोपि मोहं हित्वोत्थितः किमिति किंत्विति किंकिमेतत्
अगस्त्य उवाच ततो दृष्ट्वा स पितरौ बहुशोकसमावृतौ
न मांकृत वपुस्त्राणं भवच्चरणरेणुभिः
प्रतिज्ञां शृणुतं तातौ यदि वां तनयो ह्यहम्