एषामन्यतमः कार्यो गृहस्थेन विपश्चिता
अन्नप्राशनमब्दार्धे चूडाब्दे चार्थवत्कृता ।। 4.1.11.
कर्णवेधं ततः कृत्वा श्रवणर्क्षे सकर्मवित्
उपाकर्म ततः कृत्वा वेदानध्यापयत्सुधीः
विद्याजातं समस्तं च साक्षिमात्राद्गुरोर्मुखात्
ततोथ नवमे वर्षे पित्रोः शुश्रूषणे रतम्
विश्वानरोटजं प्राप्य देवर्षिर्नारदः सुधीः
कुरुते युवयोर्वाक्यमयं गृहपतिः शिशुः
नान्यत्तीर्थं न वा देवो न गुरुर्न च सत्किया
न पित्रोरधिकं किंचित्त्रिलोक्यां तनयस्य हि
अंभोभिरभिषिच्यस्वं जननीचरणच्युतैः
संन्यस्ताखिलकर्मापि पितुर्वंद्यो हिमस्करी 4.1.11.
इदमेव तपोत्युग्रमिदमेवपरं व्रतम्
मन्येमान्यो नाधमस्य तथान्यस्य यथा युवाम्
वैश्वानरसमभ्येहि ममोत्संगे निषीद भो
इत्युक्तो मुनिना बालः पित्रोराज्ञामवाप्य सः
ततो दृष्ट्वास्य सर्वांगं तालुजिह्वाद्विजानपि
स्मृत्वा शिवौ गणाध्यक्षमूर्ध्वीभूतमुदङ्मुखम्
तिर्यगूर्ध्वं समो माने योष्टोत्तरशतांगुलः
पंचसूक्ष्मः पंचदीर्घः सप्तरक्तः षडुन्नतः
पंचदीर्घाणि शस्यानि यथादीर्घायुषोस्य वै
ग्रीवाजंघा मेहनैश्च त्रिभिर्ह्रस्वोयमीडितः 4.1.11.
त्वक्केशांगुलिदशनाः पर्वाण्यंगुलिजान्यपि
वक्षः कुक्ष्यलकं स्कंध करं वक्त्रं षडुन्नतम्
पाण्योस्तले च नेत्रांते तालुजिह्वाधरौष्ठकम्
ललाटकटिवक्षोभिस्त्रिविस्तीर्णो यथाह्यसौ
कमठीपृष्ठकठिनावकर्मकरणौ करौ
अच्छिन्ना तर्जनीं व्याप्य तथा रेखास्य दृश्यते
पादौ सुमांसलौ रक्तौ समौ सूक्ष्मौ सुशौभनौ
स्वल्पाभिः कररेखाभिरारक्ताभिः सदासुखी