इष्टगन्धप्रसूनौघैर्ववर्षुस्ते घनाघनाः
परितः सरितः स्वच्छा भूतानां मानसैः सह
सत्त्वाः सत्त्वसमायुक्ता वसुधासीच्छुभा तदा 4.1.11.
तिलोत्तमोर्वशीरंभा प्रभा विद्युत्प्रभा शुभा
क्वणत्कंकण पात्राणि कृत्वा करतलं मुदा
वज्रवैदूर्य दीपानि हरिद्रा लेपनानि च
पद्मरागप्रवालाख्यरत्नकुंकुमवंति च
विद्याधर्यश्च किन्नर्यस्तथाऽमर्यः सहस्रशः
गंधर्वोरगयक्षाणां सुवासिन्यः शुभस्वराः
मरीचिरत्रि पुलहः पुलस्त्यः क्रतुरंगिराः
लोमशो लोमचरणो भरद्वाजोथ गौतमः
जमदग्निश्च संवर्तो मतंगो भरतोंशुमान् 4.1.11.
ऋष्यशृंगोथ दुर्वासा रुचिर्नारदतुंबुरू
शालंकायनहारी तौ विश्वामित्रोथभार्गवः
धौम्योपमन्युवत्साद्या मुनयो मुनिकन्यकाः । तच्छांत्यर्थं समाजग्मुर्धन्यं विश्वानराश्रमम्
ब्रह्मा बृहस्पतियुतो देवो गरुडवाहनः
महेंद्रमुख्या गीर्वाणा नागाः पातालवासिनः
स्थावरा जंगमं रूपं धृत्वा याताः सहस्रशः
जातकर्म स्वयं चक्रे तस्य देवः पितामहः
इति नाम ददौ तस्मै देयमेकादशेहनि
अयमग्निर्गृहपतिर्गार्हपत्यः प्रजाया वसुवित्तमः
अग्ने गृहपते स्थित्या परामपि निदर्शयन् 4.1.11.
कृत्वा बालोचितां रक्षां हरेण हरिणा सह
अहोरूपमहो तेजस्त्वहो सर्वांगलक्षणम्
अथवा किमिदं चित्रं शर्वभक्तजनेष्वहो
इति स्तुवंतस्त्वन्योन्यं जग्मुः सर्वे यथागतम्
अतः पुत्रं समीहंते गृहस्थाश्रमवासिनः
अपुत्रस्य गृहं शून्यमपुत्रस्यार्जनं वृथा
न पुत्रात्परमो लाभो न पुत्रात्परमं सुखम्
औरसः क्षेत्रजः क्रीतो दत्तः प्राप्तः सुतासुतः