शब्दं गृह्णास्यश्रवास्त्वं हि जिघ्रेरघ्राणस्त्वं व्यंघ्रिरायासि दूरात् 4.1.10.
अभिलाषाष्टकं पुण्यं स्तोत्रमेतत्त्वयेरितम् 4.1.10.
अब्दं जप्तमिदं स्तोत्रं पुत्रदं नात्र संशयः
अगस्तिरुवाच शृणु सुश्रोणि सुभगे वैश्वानरसमुद्भवम्
अथ कालेन तद्योषिदंतर्वत्नी बभूव ह
ततः पुंसवनं तेन स्पंदनात्प्राग्विपश्चिता
सीमन्तोथाष्टमे मासि गर्भरूपसमृद्धिकृत्
अथातः सत्सुतारासु ताराधिप वराननः
अरिष्टं दीपयन्दीप्त्या सर्वारिष्टविनाशकृत्
सद्यः समस्तसुखदो भूर्भुवःस्वर्निवासिनाम्
इष्टगन्धप्रसूनौघैर्ववर्षुस्ते घनाघनाः
परितः सरितः स्वच्छा भूतानां मानसैः सह
सत्त्वाः सत्त्वसमायुक्ता वसुधासीच्छुभा तदा 4.1.11.
तिलोत्तमोर्वशीरंभा प्रभा विद्युत्प्रभा शुभा
क्वणत्कंकण पात्राणि कृत्वा करतलं मुदा
वज्रवैदूर्य दीपानि हरिद्रा लेपनानि च
पद्मरागप्रवालाख्यरत्नकुंकुमवंति च
विद्याधर्यश्च किन्नर्यस्तथाऽमर्यः सहस्रशः
गंधर्वोरगयक्षाणां सुवासिन्यः शुभस्वराः
मरीचिरत्रि पुलहः पुलस्त्यः क्रतुरंगिराः
लोमशो लोमचरणो भरद्वाजोथ गौतमः
जमदग्निश्च संवर्तो मतंगो भरतोंशुमान् 4.1.11.
ऋष्यशृंगोथ दुर्वासा रुचिर्नारदतुंबुरू
शालंकायनहारी तौ विश्वामित्रोथभार्गवः
धौम्योपमन्युवत्साद्या मुनयो मुनिकन्यकाः । तच्छांत्यर्थं समाजग्मुर्धन्यं विश्वानराश्रमम्
ब्रह्मा बृहस्पतियुतो देवो गरुडवाहनः
महेंद्रमुख्या गीर्वाणा नागाः पातालवासिनः
स्थावरा जंगमं रूपं धृत्वा याताः सहस्रशः
जातकर्म स्वयं चक्रे तस्य देवः पितामहः
इति नाम ददौ तस्मै देयमेकादशेहनि