यामुनेशं लांगलीशं श्रीमद्विश्वेश्वरं विभुम्
व्याघ्रेश्वरं वराहेशं व्यासेशं वृषभध्वजम्
सोमेश्वरं किमिन्द्रेशं स्वर्लीनं संगमेश्वरम्
त्रिसंध्येशं महादेवमुपशांति शिवं तथा
मित्रावरुणसंज्ञं वा किमेषामाशुपुत्रदम्
आज्ञातं विस्मृतं तावत्फलितो मे मनोरथः
दर्शनात्स्पर्शनाद्यस्य मनो निर्वृतिभाग्भवेत्
दिवानिशं पूजनार्थं विज्ञाप्य त्रिदशेश्वरम् 4.1.10.
षण्मासात्सिद्धिमगमद्बहुनीराजनैरिह 4.1.10.
पंचगव्याशनो मासं मासं चांद्रायणव्रती 4.1.10.
शब्दं गृह्णास्यश्रवास्त्वं हि जिघ्रेरघ्राणस्त्वं व्यंघ्रिरायासि दूरात् 4.1.10.
अभिलाषाष्टकं पुण्यं स्तोत्रमेतत्त्वयेरितम् 4.1.10.
अब्दं जप्तमिदं स्तोत्रं पुत्रदं नात्र संशयः
अगस्तिरुवाच शृणु सुश्रोणि सुभगे वैश्वानरसमुद्भवम्
अथ कालेन तद्योषिदंतर्वत्नी बभूव ह
ततः पुंसवनं तेन स्पंदनात्प्राग्विपश्चिता
सीमन्तोथाष्टमे मासि गर्भरूपसमृद्धिकृत्
अथातः सत्सुतारासु ताराधिप वराननः
अरिष्टं दीपयन्दीप्त्या सर्वारिष्टविनाशकृत्
सद्यः समस्तसुखदो भूर्भुवःस्वर्निवासिनाम्
इष्टगन्धप्रसूनौघैर्ववर्षुस्ते घनाघनाः
परितः सरितः स्वच्छा भूतानां मानसैः सह
सत्त्वाः सत्त्वसमायुक्ता वसुधासीच्छुभा तदा 4.1.11.
तिलोत्तमोर्वशीरंभा प्रभा विद्युत्प्रभा शुभा
क्वणत्कंकण पात्राणि कृत्वा करतलं मुदा
वज्रवैदूर्य दीपानि हरिद्रा लेपनानि च
पद्मरागप्रवालाख्यरत्नकुंकुमवंति च
विद्याधर्यश्च किन्नर्यस्तथाऽमर्यः सहस्रशः
गंधर्वोरगयक्षाणां सुवासिन्यः शुभस्वराः
मरीचिरत्रि पुलहः पुलस्त्यः क्रतुरंगिराः