लोलार्कमुख्य सूर्यांश्च प्रणम्य च पुनः पुनः
सहस्रभोजनाद्यैश्च यतीन्विप्रान्प्रतर्प्य च
असकृच्चिन्तयामास किं लिंगं क्षिप्रसिद्धिदम्
श्रीमदोंकारनाथं वा कृत्तिवासेश्वरं किमु
केदारेशं तु कामेशं चन्द्रेशं वा त्रिलोचनम्
दशाश्वमेधमीशानं द्रुमि चंडेशमेव च
ढुंढ्याशागजसिद्धाख्यं धर्मेशं तारकेश्वरम्
पर्वतेशं पशुपतिं ब्रह्मेशं मध्यमेश्वरम् 4.1.10.
भारभूतेश्वरं किं वा महालक्ष्मीश्वरं तु वा
मार्कंडं मणिकर्णीश रत्नेश्वरमथापि वा
यामुनेशं लांगलीशं श्रीमद्विश्वेश्वरं विभुम्
व्याघ्रेश्वरं वराहेशं व्यासेशं वृषभध्वजम्
सोमेश्वरं किमिन्द्रेशं स्वर्लीनं संगमेश्वरम्
त्रिसंध्येशं महादेवमुपशांति शिवं तथा
मित्रावरुणसंज्ञं वा किमेषामाशुपुत्रदम्
आज्ञातं विस्मृतं तावत्फलितो मे मनोरथः
दर्शनात्स्पर्शनाद्यस्य मनो निर्वृतिभाग्भवेत्
दिवानिशं पूजनार्थं विज्ञाप्य त्रिदशेश्वरम् 4.1.10.
षण्मासात्सिद्धिमगमद्बहुनीराजनैरिह 4.1.10.
पंचगव्याशनो मासं मासं चांद्रायणव्रती 4.1.10.
शब्दं गृह्णास्यश्रवास्त्वं हि जिघ्रेरघ्राणस्त्वं व्यंघ्रिरायासि दूरात् 4.1.10.
अभिलाषाष्टकं पुण्यं स्तोत्रमेतत्त्वयेरितम् 4.1.10.
अब्दं जप्तमिदं स्तोत्रं पुत्रदं नात्र संशयः
अगस्तिरुवाच शृणु सुश्रोणि सुभगे वैश्वानरसमुद्भवम्
अथ कालेन तद्योषिदंतर्वत्नी बभूव ह
ततः पुंसवनं तेन स्पंदनात्प्राग्विपश्चिता
सीमन्तोथाष्टमे मासि गर्भरूपसमृद्धिकृत्
अथातः सत्सुतारासु ताराधिप वराननः
अरिष्टं दीपयन्दीप्त्या सर्वारिष्टविनाशकृत्
सद्यः समस्तसुखदो भूर्भुवःस्वर्निवासिनाम्