ब्रह्मचर्यं हि गार्हस्थ्ये यादृक्कल्पनयोज्झितम्
हठाद्वा लोकभीत्या वा स्वार्थाद्वा ब्रह्मचर्यभाक्
परदारपरित्यागात्स्वदारपरितुष्टितः
विमुक्तरागद्वेषो यः कामक्रोधविवर्जितः
वैराग्याद्गृहमुत्सृज्य गृहधर्मान्हृदि स्मरेत्
अयाचितोपस्थितया यो वृत्त्या वर्तते गृही
प्राथयेद्यत्क्वचित्किंचिद्दुष्प्रापं वा भविष्यति
गुणागुणविचार्येत्थं स वै विश्वानरो द्विजः 4.1.10.
अग्निशुश्रूषणरतः पंचयज्ञपरायणः
धर्मार्थकामान्युक्तात्मा सोर्जयन्स्वस्वकालतः
पूर्वाह्णे दैविकं कर्म सोकरोत्कर्मकांडवित्
एवं बहुतिथे काले गते तस्याग्रजन्मनः
अपश्यंत्यंकुरमपि संततेः स्वर्गसाधनम्
शुचिष्मत्युवाच न दुर्लभं ममास्तीह किंचित्त्वच्चरणार्चनात्
ये वै भोगाः समुचिताः स्त्रीणां ते त्वत्प्रसादतः
सुवासांसि सुवासाश्च सुशय्या सुनितंबिनी
एकं मे प्रार्थितं नाथ चिराय हृदिसंस्थितम्
विश्वानर उवाच तत्प्रार्थय महाभागे प्रयच्छाम्यविलंबितम् ।।4.1.10.
महेशितुः प्रसादेन मम किंचिन्न दुर्ल्भम्
इति श्रुत्वा वचः पत्युस्तस्य सा पतिदेवता
वरयोग्यास्मि चेन्नाथ नान्यं वरमहं वृणे
इति तस्या वचः श्रुत्वा शुचिष्मत्याः शुचिव्रतः
अहो किमेतया तन्व्या प्रार्थितं ह्यतिदुर्लभम्
तेनैवास्या मुखे स्थित्वा वाक्स्वरूपेण शंभुना
ततः प्रोवाच तां पत्नीमेकपत्निव्रते स्थितः
इत्थमाश्वास्य तां पत्नीं जगाम तपसे मुनिः
प्राप्य वाराणसीं तूर्णं दृष्ट्वाथ मणिकर्णिकाम्
दृष्ट्वा सर्वाणि लिंगानि विश्वेश प्रमुखानि च 4.1.10.
नत्वा विनायकान्सर्वान्गौरीः सर्वाः प्रणम्य च
दण्डनायकमुख्यांश्च गणान्स्तुत्वा प्रयत्नतः